________________
मुक्ता
समतलक्षणा। प्रथमाध्ययनस स्वपरसमयनिरूपणात्मकत्वात्स्वसमयमादौ निरूपयति
विज्ञाय परिग्रहबन्धनं संयमेनापनयेत् ॥ ३॥ विज्ञायेति, जीवप्रदेशैरन्योऽन्यानुवेधरूपतया बद्ध्यते व्यवस्थाप्यते यत्तद्वन्धनं ज्ञानावरणीयाधष्टविधं कर्म तद्धेतवो मिथ्यात्वाविरत्यादयः परिग्रहारम्भादयो वा, परिग्रहरूपं बन्धनं परिग्रहबन्धनम् , परिग्रहामहस्यैव परमार्थतोऽनर्थमूलत्वात्तस्यैवोपादानं कृतम् , स्तोकमपि तृणतुषकनकद्विपदादि । परिग्रहं परिगृह्यान्यान्वा ग्राहयित्वा गृहतो वाऽन्याननुज्ञायाष्टविधकर्मणस्तत्फलादसातोदयादितो न मुच्यते, अप्राप्तनष्टेषु परिग्रहेषु कांक्षाशोको प्राप्तेषु रक्षणमुपभोगे चातृप्तिरपि स्यात् , एवमसन्तुष्टः परिग्रही तदर्जनतत्परोऽर्जितोपद्रवकारिषु द्विष्टो मनोवाकायेभ्यो जीवान् व्यापादयति, अन्यैरपि घातयति घ्नतांश्चानुमोदते, एवं मृषावादाद्यपि विदधाति तस्मात्स्वजनादयो वित्तादयश्च सर्व संसारान्तर्गतं यत्किञ्चिदपि शारीरमानसवेदनाक्रान्तस्य जीवस्य परिरक्षणाय समर्थमिति ज्ञपरिज्ञया विज्ञाय 10 प्रत्याख्यानपरिज्ञया च प्रत्याख्याय संयमानुष्ठानलक्षणक्रियया तद्वन्धनमपनयेत् । विज्ञाय संयमेनापनयेदित्युक्त्या ज्ञानक्रियाभ्यामेव निःश्रेयसाधिगमो न ज्ञानमात्राक्रियामात्राद्वेति सूचितम् , तत्र ज्ञानं स्वपरावभासनरूपम् , क्रिया स्वरूपरमणरूपा, तत्र चारित्रवीर्यगुणैकत्वपरिणतिः क्रिया सा साधिका, तत्र जीवोऽनादिसंसारेऽशुद्धकायिक्यादिक्रियाव्यापारनिष्पन्नः परिभ्रमति, स एव विशुद्धसमितिगुप्त्यादि विनयवैयावृत्स्यादिसत्क्रियाकरणेन निवर्त्तते, अतः संसारक्षपणाय संवरनिर्जरात्मिका क्रिया 16 कर्तव्या, तथा द्रव्यभावभेदेन ज्ञानं द्विविधम् , एवं क्रियापि, भावनारहितं वचनव्यापारमनोविकल्परूपं संवेदनज्ञानं द्रव्यज्ञानम्, तच्च भावज्ञानतत्त्वानुभवनलक्षणोपयोगल कारणम् , योगव्यापारात्मिका द्रव्यक्रिया सापि स्वगुणानुयायिस्वगुणप्रवृत्तिरूपाया भावक्रियायाः कारणम् । ज्ञानस्ल फलं विरतिस्तेन ज्ञानं विरतिकारणमतो ज्ञानपूर्विका क्रिया फलवतीत्येतत्सूचनाय विज्ञाय संयमेनेति पूर्वोत्तरकालनिर्देशः कृतः, न हि साधनप्रवृत्तिलक्षणक्रियारहितं ज्ञानं मोक्षलक्षणकार्यसाधकम् , गति-20 रहितपथावत्, आश्रयत्येव हि तत्त्वज्ञानी प्रथमसंवरकार्यरुचिर्देशसर्वविरमणलक्षणां क्रियाम् , चारित्रयुतोऽपि तस्वज्ञानी केवलज्ञानकार्यरुचिः शुक्लध्यानारोहणरूपां क्रियाम् , केवलज्ञान्यपि सर्वसंवरपूर्णानन्दकार्यावसरे योगनिरोधरूपां क्रियाम् । बन्धनमपनयेदित्यनेन च दुःखसाधनकर्मध्वंस: पुरुषार्थत्वान्मोक्ष इति सूचितम् , न तु दुःखध्वंसः, उत्पन्नस्य दुःखस्य क्षणिकत्वेन स्वयमेव ध्वंसादनुत्पन्नस्यानुत्पन्नत्वादेव तदंसस्य चासाध्यत्वात्, सन्तानोच्छेदो मोक्ष इत्यपि निरस्तम्, तैः विनाशस्य 25 निर्हेतुकत्त्वस्वीकारेण सदुपायोपदेशवयात् । चैतन्यमानेऽवस्थानलक्षणा मुक्तिरपि न युक्ता, प्रकृत्याद्यसिद्धः, तत्साधनतयाऽभीष्टप्रकृतिपुरुषविवेकासम्भवात् । आत्मविशेषगुणामामत्यन्तोच्छेदो मुक्तिरित्यपि न युक्तम् , कस्याप्यत्यन्तोच्छेदासम्भवात् , कथञ्चिदेवोच्छेदादिति ॥ ३॥
अथ भगवदुक्तजीवकर्मतहेतुतत्रोटनमोक्षातिक्रमेण निजमनीषिकोद्भावितसमयाभिनिविष्टानां मानवानां न संसारगर्भजन्मदुःखमारादिपारगत्वमिति सूचयितुं प्रथमतश्चार्वाकमतमुपन्यस्यति- 30 विशिष्टपअभूतपरिणाम एवात्मा तद्विनाशोऽन्यतमापायादित्येके ॥४॥