________________
सूत्रार्यमुक्तावल्याम्
[तृतीया विशिष्टेति, एके चार्वाकाः सर्वलोकव्यापीनि पञ्चमहाभूतानि पृथिव्यप्तेजोवाय्वाकाशलक्षणानि पदार्थत्वेनाभ्युपयन्ति न ततो व्यतिरिक्तं किश्चिदपि, कठिनलक्षणा पृथिवी द्रव्यलक्षणा आपः, उष्णरूपं तेजः, चलनलक्षणो वायुः, शुषिरलक्षण आकाशः, एतानि प्रत्यक्षप्रमाणसिद्धानि, नैतेभ्यो व्यतिरिक्तः कश्चिदात्मादिरस्ति, तद्राहकप्रमाणाभावात् , न वा प्रत्यक्षव्यतिरिक्तमनुमानादिकं प्रमाणं भवितु5 मर्हति, तत्रेन्द्रियेण साक्षादर्थसम्बन्धाभावात् , यच्च चैतन्यमुपलभ्यते तत्कायाकारपरिणतेषु भूतेष्वेव, पञ्चभूतानां समुदये शरीरेन्द्रियविषयसंज्ञा भवन्ति, तेभ्यश्च चैतन्यम् , तथा च भूतकार्यत्वाद्यथा घटादयो न भूतव्यतिरिक्तास्तथा चैतन्यमपीति कायलक्षणविशिष्टपञ्चभूतपरिणाम एवात्मा, मृतादिव्यपदेशस्तु तत्परिणामे चैतन्याभिव्यक्ती सत्यां तदूर्ध्व तेषामन्यतमस्य विनाशे तत्परिणामविनाशाच्चैतन्यस्याप्यभावेन भवति, न तु व्यतिरिक्तजीवविनिर्गमनात् । केषाचिल्लोकायतिकानामाकाशस्यापि भूतत्वे10 नाभ्युपगमात् पश्चेत्युक्तम् ॥ ४ ॥ । तदेतन्मतं निराकरोति
तन्न, अभिव्यक्त्युत्पत्तिभ्यां ततश्चैतन्यासम्भवात् ॥५॥
तन्नेति, विशिष्टपश्चभूतपरिणाम आत्मा नेत्यर्थः, तत्र हेतुमाहाभिव्यक्तीति, तथाहि तत्र किं सतश्चैतन्यस्याभिव्यक्तिः, असतो वा, सदसद्रूपस्य वा, न प्रथमः, तस्यानाद्यनन्तत्वसिद्धिप्रसङ्गात् , 15 तसिद्धिव्यतिरेकेण सर्वदा चैतन्यस्य सत्त्वासम्भवात् , पृथिव्यादिसामान्यवत् , तथा च परलोकिनोऽभावात् परलोकाभाव इत्यभ्युपगमो बाधितः स्यात् । न द्वितीयः, प्रतीतिविरोधात्, सर्वथाप्यसतः कस्यचिदभिव्यक्त्यप्रतीतेः । न तृतीयः, परमतप्रवेशप्रसङ्गात्, कथञ्चिद्रव्यतः सतश्चैतन्यस्य पर्यायतोऽसतश्च कायाकारपरिणतपृथिव्यादिपुद्गलैरभिव्यक्तेः परैरपि स्वीकारात्, ननु तत्र चैतन्यस्योत्पत्तिरभ्युपगम्यते न त्वभिव्यक्तिः, नातः पूर्वोक्तो दोषः, विशिष्टपरिणामः शरीरेन्द्रियादिलक्षणः कारकः, कार20 कत्वश्चासतः स्वरूपनिर्वतकत्वमित्याशङ्कायां तत्रापि दोषमाविष्कर्तुमुक्तमुत्पत्तीति, तथा हि किं भूतानि
चैतन्यं प्रत्युपादानकारणानि, सहकारिकारणानि वा, नाद्यः, यथा हि सुवर्णोपादाने किरीटादौ सुवर्णस्यान्वयस्तथा चैतन्ये भूतान्वयः स्यात् , न चैवम्, न हि भूतग्रामः पूर्वतनमचेतनस्वरूपं परित्यज्य चेतनाकारमादधानो धारणद्रवोष्णतेरणलक्षणेन रूपादिमत्तया वा भूतस्वभावेनान्वितः प्रमाणसिद्धः,
अपि तु तथाविधस्वभावरहितमेव चैतन्यमन्तःसंवेदनेनानुभूयते, न च प्रदीपाशुपादानेन कज्जलादिना 25 प्रदीपाद्यनन्वयिना व्यभिचारः, रूपादिमत्त्वेन तस्यान्वयित्वदर्शनात् । पुद्गलविकाराणां रूपादिमत्त्वमा
त्राव्यभिचारात् । न च सत्त्वक्रियाकारित्वादिधमैर्भूतचैतन्ययोरन्वयित्वमस्तीति वाच्यम्, तथा सति जलानलादीनामपि तथाविधधर्मान्वयितयोपादानोपादेयभावप्रसङ्गात् । न द्वितीयः, उपादानकारणतयाऽन्यस्य कल्पनाप्रसङ्गात्, भूतानां सहकारित्वात् , अनुपादानस्य कस्यचिदपि कार्यस्यानुपलब्धेः ।
न च भूतेष्वेव कस्यचिदेकस्योपादानत्वमन्येषां सहकारित्वमिति वाच्यम् , विनिगमनाविरहेण सर्वेषा80 मेवोपादानत्वस्यानुपादानत्वस्य वा प्रसङ्गात् । न च शब्दविद्युदादेरनुपादानस्याप्युपलम्भोऽस्तीति - वाच्यम् , पटादिवत्तस्यापि कार्यत्वेन सोपादानत्वानुमानात्, तस्मादुत्पत्त्याश्रयेणापि भूतेभ्यो न चैतन्यस सम्भवः । ततश्चैतन्यासम्भवादित्युक्त्या चैतन्यस्याभ्यगुणत्वमावेदितम् , तथा च चैतन्यं भूतानां