SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ मुक्ता] आचारलक्षणा। गृहीयादिति पञ्च भावनाः । चतुर्थव्रतस्य स्त्रीसम्बन्धिकथात्यागः, मनोहरतदिन्द्रियानवलोकनम् , पूर्वक्रीडितास्मरणम् , अतिमात्रभोजनाद्यनासेवनं स्त्रीपशुपण्डकविरहितशय्यावस्थानमिति पञ्च भावनाः । पञ्चमव्रतस्य मनोज्ञशब्दरूपरसगन्धस्पर्शेषु गायपरिहार इति पञ्च भावना विज्ञेयाः ॥ ८६ ॥ अथानित्यत्वभावनाश्रयेणाह- . प्रवचनावगतानित्यत्वस्त्यक्तारम्भो दुष्प्रकम्प्यः ॥ ८७॥ प्रवचनेति, चतसृष्वपि गतिषु प्राणिनो यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यादिकं मौनीन्द्रमनुत्तरं प्रवचनं निशम्य यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तत्तथैव दृश्यत इति विचिन्त्य परित्यक्तगृहपाशमारम्भादिसावद्यानुष्ठानं बाह्याभ्यन्तरं च परिग्रहं त्यक्त्वा सम्यग्यतमानं जिनागमगृहीतसारं परिशुद्धाहारादिना वर्तमानं साधुं न मिथ्यादृष्टयोऽसभ्यालापैः लोष्टप्रहारादिभिर्वा पीडामुत्पादयन्ति, न वा तैः साक्रोशशीतोष्णादिस्पर्शः पीडितोऽपि ज्ञानित्वात्पूर्वकृतकर्मविपाकानुभवं 10 मन्यमानो निष्कलङ्कमना ग्लायति ॥ ८७ ॥ मूलोत्तरगुणाश्रयेणाह गीतार्थसहवासी ध्याता महाव्रती सितकामगुणास्पृष्टो निर्मलो भवतीति ॥ ८८॥ गीतार्थेति, परीषहोपसर्गसह इष्टानिष्टविषयेषु माध्यस्थ्यमवलम्बमानो गीताथैः सह 16 वास्तव्यः पिहिताश्रवद्वारो विगततृष्णः क्षान्त्यादिप्रधानो धर्मध्यानव्यवस्थितः प्रवृद्धतपःप्रज्ञायशाः कर्मान्धकारापनयनदक्षजगत्रयप्रकाशिमहाव्रतनित्यसम्बद्धः सितैर्गृहस्थैस्तीर्थान्तरीयैर्वा कामगुणैर्मनोझशब्दादिभिश्चास्पृष्टः सत्कारानभिलाषी ज्ञानक्रियासमलङ्कृतो भिक्षुर्यथा सर्पः कनुकं मुक्त्वा निर्मलीभवति तथाऽयमपि नरकादिभवाद्विमुच्यते । इतिशब्द आचारागसमाप्तिद्योतकः ॥ ८८ ॥ 20 सरिकैषा साधूनामाचाराङ्गान्धिमन्थनोद्भता। पीयूषनिभा भूयात् विधृता मृतिशून्यताजननी ॥ इति श्रीतपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजय__ कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजय लब्धिसूरिणा सङ्कलितायां सूत्रार्थमुक्तावल्यामाचार लक्षणा द्वितीया मुक्तासरिका वृत्ता।
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy