SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आचारलक्षणा। अचित्तं स्थानं उपाश्रविष्यामि, अचित्तं कुड्यादिकमवलम्बयिष्ये कायेन, हस्तपादाद्याकुश्चनादिक्रियावलम्बनं करिष्ये तथा तत्रैव सविचारं स्तोकपादादिविहरणरूपं स्थानं समाश्रयिष्यामीति । द्वितीया चाऽऽलम्बनाकुञ्चनप्रसारणादिक्रियामवलम्बनञ्च करिष्ये न पादविहरणमिति । तृतीया चाकुञ्चनप्रसारणमेव नावलम्बनपादविहरण इति । चतुर्थी तु त्रयमपि न करिष्य इति । एवम्भूतस्त्यकपरिमितकालकायो व्युत्सृष्टकेशश्मश्रुलोमनखः सम्यनिरुद्धं स्थानं स्थास्यामीति प्रतिज्ञाय कायोत्सर्गव्यवस्थितो मेरु..। वन्निष्प्रकम्पत्रिष्ठेत् । तथा यदि स्वाध्यायभूमिं गन्तुमभिकांक्षेत्तदा साण्डाद्यप्रासुकां भूमि न परिगृहीयात्, खाध्यायभूमिं द्वित्राद्या यदि गच्छेयुस्तदा न परस्परं गात्रसंस्पर्शवक्त्रसंयोगाद्यनेकविधाः कन्दर्पप्रधानाः क्रिया विदध्युः। तथोच्चारप्रस्रवणादिना कदाचिद्वाध्यमानः स्वकीये तदभावे साधर्मिके वा याचिते पूर्वप्रत्युपेक्षिते पादपुंछनकसमाध्यादावुच्चारादिकं कुर्यात् , तथोच्चारप्रस्रवणशंकायां साधुः पूर्वमेव स्थण्डिलं गत्वा साण्डादिकेऽप्रासुके तत्र कुर्यात् , एकं बहून् वा साधर्मिकानुद्दिश्य तत्प्रतिज्ञया 10 कदाचित् कश्चित्स्थण्डिलादि कुर्यात्तत् पुरुषान्तरस्वीकृतमस्वीकृतं वा मूलगुणदुष्टमुद्देशिकमिति तत् परिहरेत् । एवं क्रीतादिकं स्थण्डिलं शाल्यादिवपनयोग्यं घासादियुतं गर्त्तदरीदुर्गादिरूपं मानुषरन्धनादिस्थानं वेहानसगार्धपृष्टादिरूपमारामदेवकुलप्राकाराट्टालचत्वरश्मशानतीर्थस्थानपङ्किलप्रदेशादिरूपं च स्थण्डिलं परिहरेत् । कल्प्यस्थण्डिले वर्तमानोऽनुकूलप्रतिकूलशब्दादिश्रवणेऽरक्तद्विष्टस्तच्छ्रवणादिप्रतिबया न तत्र गच्छेत् , अन्यथाऽजितेन्द्रियत्वखाध्यायादिहानिरागद्वेषसम्भवात्, किन्तु साधुः स्वकीयं परकीयं 15 का पात्रकं गृहीत्वा स्थंडिलं बाऽनापातमसंलोकं गत्वोचार प्रस्रवणं वा परिष्ठापयेदिति ॥ ८४ ॥ अथ परक्रियानिषेधमाह परक्रियां कर्मनिमित्तां नाभिलषेत् ॥ ८५ ॥ परेति, षोढास्य निक्षेपः, नामस्थापने प्रसिद्धे, द्रव्यक्षेत्रकालभावपराणि प्रत्येकं तदन्यादेशक्रमबहुप्रधानपरभेदेन षड्विधानि भवन्ति, तत्र द्रव्ये तावत्तत्परं तद्रूपतयैव वर्तमानं परं तत्परम्, यथा 20 परमाणोः परः परमाणुः, अन्यरूपवया परमन्यपरं यथैकाणुकाइपणुकत्र्यणुकादि, यस्यां कस्याश्चिक्रियायां यो नियुज्यते स आदेशपरः कर्मकरादिः, क्रमपरं तु द्रव्यादि चतुर्धा, तत्र द्रव्यतः क्रमपरमेकप्रदेशिकद्रव्याद्विप्रदेशिकद्रव्यमेवं व्यणुकाच्यणुकमित्यादि, क्षेत्रत एकप्रदेशावगाढाहिप्रदेशावगाढमित्यादि, कालत एकसमयस्थितिकाहिसमयस्थितिकमित्यादि । भावत एकगुणकृष्णाद्विगुणकृष्णमित्यादि । यद्यस्माद्बहु तद्बहुपरम् , जीवेभ्यः पुद्गला अनन्तगुणा इत्यादि, प्रधानत्वेन परः प्रधानपरो यथा द्विप-25 दानां तीर्थकरश्चतुष्पदानां सिंहः, अपदानामर्जुनसुवर्णादिः । एवं सामान्येन जम्बूद्वीपक्षेत्रात् पुष्करादिकं क्षेत्रं क्षेत्रपरम्, प्राटकालाच्छरत्कालः कालपरः, औदयिकादौपशमादिर्भावपरः । विशेषेण प्रत्येकं षड्वेदाः स्वयमूहाः । साधुरात्मनः क्रियमाणां कर्मसंश्लेषजननी धर्मश्रद्धया परेणारचितां रजोवगुण्ठितपादमार्जनसैलादिम्रक्षणोद्वर्तनशीतोदकादिधावनसुगन्धिद्रव्यालिम्पनविशिष्टधूपसन्धूपनकण्टकायुद्धरणादिलक्षणां क्रियां मनसा नाभिलपेन वाचा कारवेत् कायेन वा । तथा ग्लानस्य साधोर-30 सुद्धेन शुद्धेन बा मंत्रादिसामर्थ्येन कविसाव्युपशमं यदि कर्नुबमिळवेतथा सचित्तकन्दमूलादिना वा
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy