________________
मुक्ता]
आचारलक्षणा। दभीष्टकार्यासमर्थमनलम् , जीर्णमस्थिरं, स्वल्पकालानुज्ञापनादध्रुवम् , अप्रशस्तपदेशखञ्जनादिकलङ्काकितत्वादधारणीयम् , एभिश्चतुर्भिः पदैः षोडशभङ्गा भवन्ति तत्रैक एव भङ्गः शुद्धः, अपरे पञ्चदशाशुद्धास्तथाविधं वस्त्रं दात्रा दीयमानमपि साधवे न कल्पते ॥ ८० ॥
धावननियममाहगच्छान्तर्गतो यतनया प्रक्षाल्य प्रत्युपेक्षितस्थण्डिलादावातापयेत् ॥८१॥ ।
गच्छान्तर्गत इति, मलिनमपि दुर्गन्ध्यपि वस्त्रं गच्छनिर्गतो न प्रक्षालयेत्, गच्छान्तर्गतस्तु लोकोपघातसंसक्तिभयान्मलापनयार्थमेव प्रासुकोदकादिना यतनया धावनादि कुर्यात् , न त्वभिनववस्त्रं नास्तीति कृत्वा सुगन्धिद्रव्येणाघृष्य प्रघृष्य वा शोभनतामापादयेत्, आतापनमपि भूमावव्यवहितायां चलाचले स्थूणादौ वा तत्पतनभयतो न कुर्यात्, किन्तु स्थण्डिलादि चक्षुषा प्रत्युपेक्ष्य रजोहरणादिना प्रमृज्य चातापनादिकं कुर्यात् ॥ ८१ ॥
10 ___ अथ पटलकैविना पिण्डो न ग्राह्य इति यथा वस्त्रैषणा वर्णिता तथैव पात्रेण विना न ग्राह्य इत्यधुना पात्रैषणा वर्ण्यतेतद्वद्गृहीतपात्रो यतनया गृहपतिकुले शुद्धाहारादि याचेत ॥ ८२॥
तद्वदिति, वस्त्रवदित्यर्थः, अर्धयोजनान्तर एव पात्रान्वेषी तारुण्यबलस्थिरसंहननाद्युपेतः शुद्धमलाबूदारुमृत्तिकादिपात्रमेकमेव बिभृयात्, न च द्वितीयम्, स च जिनकल्पिकादिः, इतरस्तु 15 मात्रकसद्वितीयं पात्रं धारयेत् , तत्र सङ्घाटके सत्येकस्मिन् भक्तं द्वितीये पानकं, मात्रकन्त्वाचार्यादि प्रायोग्यकृतेऽशुद्धस्य वा भोजनस्य शुद्ध्यर्थम् । तानि च महाघमूल्यानि लोहताम्रसीसकहिरण्यादिरूपाणि च न गृह्णीयात् , तथा रिक्तं पात्रं न दातव्यमतो मुहूर्त्तमानं स्थीयतामशनादिकं कृत्वा पात्रक भृत्वा ददामीति दात्रोक्तो निषेधयेत्तथापि तथाकरणे पात्रं न गृह्णीयात् , दीयमानमपि पात्रकमन्तोपान्तेन प्रत्युपेक्ष्य गृह्णीयात् , तथा पिण्डपातप्रतिज्ञया गृहपतिकुलं प्रविविक्षुः पूर्वमेव पतगृहं भृशं 20 प्रत्युपेक्ष्य प्रमृज्य च गृहपतिकुलं प्रविशेत् , अकृतप्रत्युपेक्षणप्रमार्जने पतगृहे द्वीन्द्रियादिप्राणिबीजरज:प्रभृतीनां पर्यापतनप्रसङ्गेन कर्मोपादानतासम्भवः । तत्र गत्वा पानकादिके याचिते शीतोदकादि यदि दद्यात्तदाऽप्रासुकमिति न गृह्णीयात् , कथश्चिद्विमनस्कतादिना यदि प्रतिगृहीतं ततः क्षिप्रमेव तस्यैव दातुरुदकभाजने प्रक्षिपेत् , अनिच्छतः कूपादौ समानजातीयोदकेऽन्यत्र छायागर्तादौ वा प्रतिष्ठापनविधिना प्रतिष्ठापनं कुर्यात् , आर्द्रस्य पतगृहस्य तदा मार्जनादि न कुर्यात् , ईषच्छुष्कस्य तु कुर्या- 25 देवमन्यदपि भाव्यमधिकमन्यत्र ॥ ८२ ॥
अथ पिण्डशय्यावसपात्रादीनामवग्रहमाश्रित्य भावात्तं निरूपयति- स्वीकृतादत्तानादानप्रतिज्ञो यथावग्रहस्तथैव कुर्यात् ॥ ८३ ॥
स्वीकृतेति, नामस्थापनेऽवग्रहस्य प्रसिद्धे, द्रव्यक्षेत्रकालभावभेदेन चतुर्विधो देवेन्द्रराजगृहपतिसागारिकसाधर्मिकभेदेन वा पञ्चविधोऽवग्रहः, तत्र द्रव्यावग्रहः सचित्तादिभेदतस्त्रिविधः, शिष्यादेः 30 सचित्तः, रजोहरणादेरचित्तः, उभयस्य च मिश्रः। क्षेत्रावग्रहोऽपि तथैव त्रिविधः, यदि वा प्राम
सू• मु० १२