SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ८२ 10 नियमान्तरमाह - सूत्रार्थमुक्तावल्याम् अनुज्ञातमात्रमेव संस्तुतेभ्यो दद्यात् ॥ ६४ ॥ अनुज्ञातमात्रमेवेति, भिक्षुः पिण्डमादायाऽऽचार्याद्यन्तिकमुपसृत्य अयि पूज्या मम पुर:संस्तुता यदन्तिके प्रत्रजितस्तत्सम्बन्धिनः पश्चात्संखुता यदन्तिकेऽधीतं श्रुतं वा तत्सम्बन्धिनोऽन्यत्रा5 वासिता आचार्योपाध्यायप्रवर्त्तकस्थ विरगणिगणधरगणावच्छेदका युष्मदनुज्ञयाऽहमेतेभ्यः प्रभूतं दास्यामीति विज्ञाप्य तैर्यावन्मात्रमनुज्ञातं तावन्मात्रमेव प्रयच्छेत्, न त्वनापृच्छ्य यस्मै रोचते तस्मै स्वमनीषिकया प्रभूतमल्पं वा प्रयच्छेत्, मातृस्थानसंस्पर्शप्रसङ्गात्, तथा गोचर्या पिण्डमादायाचार्याद्यन्ति के सर्वं यथावस्थितमेव दर्शयेत्, न तु पर्यटन्नेव रसगृध्रुतया सरसं सरसमभ्यवहृत्यान्तप्रान्तादिकं प्रतिश्रयमानयेत् ॥ ६४ ॥ नियमान्तरमाह प्रतिश्रयगुणदोषौ निरूपयति — [ द्वितीया ग्लानार्थ दत्तं नान्यथा कार्यम् ॥ ६५ ॥ ग्ला नार्थमिति, एकः कश्चिद्भिस्तत्रैव वास्तव्येषु समागतेषु वा साम्भोगिकेष्वसाम्भोगिकेषु वा कस्यचिद्ग्लानतायां मनोज्ञमाहारजातमादाय ग्लानाय प्रयच्छतेत्युक्त्वा यदि तेषु कस्मैचिद् ददाति तदा स गृहीत्वा तत्राभ्युपपन्नोऽहमेक एव भोक्ष्य इति मनसि विधाय ग्लानस्यापथ्योऽयं पिण्ड इ 15 बुद्ध्युत्पादनार्थं मनोज्ञं गोपित्वा वातादिरोगमुद्दिश्यायं पिण्डो भवदर्थं साधुना दत्तः किन्त्वयं रूक्षस्तिक्तः कटुः कषायोऽम्लो मधुरो वेत्यादिदोषदुष्टो न भवत उपकाराय वर्त्तत इति यदि ब्रूयात्तदा मातृस्थानं स स्पृशति, तदेतन्न कार्यम् । तथा यदि भिक्षुणा ग्लानाय प्रयच्छता न चेद्भुक्ते स तदाऽस्मदन्तिक एव तदाहरत्वित्युक्तोऽन्तरेणान्तरायमाहरिष्यामीति कृतप्रतिज्ञो ग्लानायादत्त्वा स्वयमेवोपभुज्य भिक्षोग्लनभक्तं गृहीत्वाऽनागमननिमित्ततया शूलाद्यन्तरायं निवेदयेत्तर्हि मातृस्थान संस्पर्शः स्यात्, तन्न 20 कार्यमपि तु ग्लानाय दद्याद्दातृसमीपं वाऽऽहरेदित्यवशिष्टनियमान्तराण्यन्यतो द्रष्टव्यानि ॥ ६५ ॥ धर्माधारशरीरपरिपालनफलपिण्डग्रहणविधिमभिधायारूपसागारिके प्रतिश्रये तस्योपभोक्तव्यतया योग्यः प्रतिश्रयः स्थानशय्यादियोग्यः ॥ ६६ ॥ योग्य इति, उद्गमादिदोषविकल इत्यर्थः, साधुप्रतिज्ञया जीवानुपमद्ये रचितं मूल्यतो गृहीत25 मन्यस्मादुच्छिन्नं भृत्यादेर्बलाद्गृहीतमनिसृष्टमभ्याहृतं पुरुषान्तरकृतादिरूपमुपाश्रयं गृहस्थो यदि साधवे ददाति तर्हि न तत्र स्थानादि कुर्यात्, तथा काष्ठादिभिः कुड्यादौ संस्कृतो वंशादिकम्बाभिरवबद्धो दर्भादिभिश्छादितो गोमयादिना लिप्तः सुधादिखरपिण्डेन मृष्टो भूमिकर्मादिना संस्कृतो दुर्गन्धापनयनार्थ धूपादिना धूपितोऽन्यर्थं कृतादिरूप उपाश्रयः स्थानादियोग्यो न भवति, तथा साधुप्रतिज्ञया पूर्व लघुद्वारं तन्महाद्वारं कृतचेत् तथा मूलगुणदुष्टचेत्तदपि गृहं न योग्यम्, पृष्ठवंशादिभिः साधुप्रतिज्ञया 30 कृता वसतिर्मूलगुणदुष्टा, साधुप्रतिज्ञयोदकप्रसूतकन्दादीनां स्थानान्तरनयने निःसारणे वा तथाभूत उपाश्रयोऽयोग्यः, एवं कृताशुचिनि:सारणं स्थानमपि, मूलगुणदुष्टमुपाश्रयं विहायान्ये पूर्वोदिता यदि
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy