SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ मुक्ती J आचारलक्षणां । कन्देति, जलजः स्थलजो वा कन्दः, सर्षपकन्दल्यः, पिप्पलीमरिचार्द्रकाणि तचूर्णानि च, आदिना फलसामान्यमपकमर्धपकं वाऽरणिकतंन्दुलीयकादि तदेतत्सर्वमन्यद्वा शस्त्रानुपहतं न गृह्णीयात्, एवमेव वनस्पतिविशेषा उत्पलतन्नालादयोऽग्रस्कन्धमूलबीजादीनि चान्यतो द्रष्टव्यानि ॥ ६० ॥ आहारादौ श्राद्धभावनामाह - दत्त्वा पुनः पाकाभिसन्धौ न ग्राह्यम् ॥ ६१ ॥ दत्त्वेति, कश्चित् श्राद्धः प्रकृतिभद्रको वा साधव एतेऽष्टादशशीलाङ्गसहस्रधारिणो रात्रिभोजनविरमणषष्ठपच महाव्रतधारिणः पिण्डविशुद्ध्याद्युत्तरगुणोपेता इन्द्रियनोइन्द्रियसंयमिनः पिहिताश्रवद्वारा नवविधब्रह्मगुप्तगुप्ता अष्टादशविकल्पब्रह्मोपेताः, एतेषाञ्च न कल्पते भोक्तुं पातुं वाऽऽधाकर्मिकमशनादि, अत आत्मार्थं विहितमशनादि सर्वमेतेभ्यो वितीर्य पुनर्वयमात्मार्थमन्यदशनादि निर्वर्तयिष्याम इति यद्यभिसन्दधाति तदेतत्कथमपि विदित्वा साधुः पश्चात्कर्मभयतोऽनेषणीयं मन्यमानो न प्रति- 10 गृह्णीयात् ॥ ६१ ॥ नियमान्तरमाह— संस्तुतावासपरिहारेणान्यत्र शुद्धं ग्राह्यम् ॥ ६२ ॥ -संस्तुतेति, संस्तुताः - सम्बन्धिनस्ते द्विविधाः पूर्वसंस्तुताः पितृव्यादयः, पश्चात्संस्तुताःश्वशुरादयः, एवंविधानि गृहाणि भक्ताद्यर्थं न प्रविशेत्, यतो गृहस्थो तेभ्यः पूर्वमेवाशनादि 15 मिक्षवे दानार्थं कुर्यात्, अतः कर्मोपदानमेतत्, किन्तु तथाविधं प्रामादिकं प्रविष्टो भिक्षुः स्वजनकुलं विदित्वा केनचित्स्वजनेनाज्ञात एवैकान्तमपक्रम्यानालोके तिष्ठेत्, प्राप्ते भिक्षावसरे तथाविधप्रामाद्यनुप्रविश्येतरकुलेभ्य उद्गमादिदोषरहितां वेषमात्रादवाप्तामुत्पादनादिदोषरहितां भिक्षामन्विष्य प्रासैपण दोषरहितां तामाहारयेत् । तत्रोत्पादनादोषाः धात्रीदूतीनिमित्ताजी विकावनीपक चिकित्साक्रोधादिसंस्तव विद्या मंत्र चूर्णयोगमूल पिण्डाः षोडश साधुसमुत्थाः, प्रासैषणादोषाश्च संयोजनाप्रमाणाङ्गारधूम्र - 20 कारणदोषाः कालेनानुप्रविष्टोऽपि भिक्षुः क्रियमाणमाधाकर्मिकमशनाद्याहृतमेव प्रत्याख्यास्यामीति मन्वानो न तूष्णीम्भावेनोपेक्षेत, मातृस्थानप्राप्तिप्रसङ्गात् किन्तु संस्क्रियमाणं दातारं नाधाकर्मिक आहारो मे कल्पत इति वदन् प्रतिषेधयेत् तथापि यदि कुर्यान्नो गृह्णीयादिति ॥ ६२ ॥ " 5 नियमान्तरमाह— सरसं विरसं वाऽधिकमनापृच्छ्य न परिष्ठापयेत् ॥ ६३ ॥ 25 सरसमिति, भिक्षुः सरसं विरसं वाऽऽहृतमाहारादि सर्वमभ्यवहरेत्, न तु सरसं भुक्त्वा विरसं त्यजेत् मातृस्थानप्राप्तिप्रसङ्गात्, एवं पानकमपि, तथा लब्धं बह्नशनादि भोक्तुमसमर्थस्तत्परिगृह्य तत्रादूरे वा गतानां साधर्मिकादीनां समीपं गत्वा अयि श्रमणा ममैतदशनादि बहु पर्यापनं नाहं भोक्तुं समर्थोऽतो यूयं किश्चिद्भुङ्ग्ध्वमिति वदेत्, यावन्मात्रं भोक्तुं शक्नुमस्तावन्मात्रं भोक्ष्यामहे पास्यामह इति ते यदि वदेयुस्तदा तथा कार्यम् । न तु ताननापृच्छ्य प्रमादितया परिष्ठापयेत्, मातृस्थानसंस्पर्श - 30. प्रसङ्गात् ॥ ६३ ॥ सू० मु० ११
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy