________________
सलामुप्तावस्याम्
[शिताया दकेनोष्णोदकेन वाऽत्रिदण्डोद्वत्तेन पश्चाद्वा सचित्तीभूतेन तदैव हस्तौ प्रक्षाल्य दाता यदि देयात् तद्विज्ञाय साधुस्तदप्रासुकमिति न गृहीयात्, आदिना रजःक्षारमृत्तिकाहरितालहिङ्गुलकमनःशिलालनलवणगेरुकादयः सचित्ता प्रायाः, एतैः संसृष्टहस्तादिना दीयमानमग्राह्यं भवति, असंसृष्टन्तु प्रायम् । तथा साध्वर्थ सचित्तमचित्तं वा चित्तवत्यां शिलायां कुट्टयित्वा दीयमानं पृथुकादिकं लवणं वाऽप्रायम् । 5 तथाऽम्युपरि व्यवस्थितमाहाराधपि । मालाहृतमिति, मश्चकप्रासादहऱ्यातलाचूर्वप्रदेशव्यवस्थितमधाकुसूलसंस्थानकोष्ठिकादिव्यवस्थितं वाऽऽहारादि मालाहृतमिति कृत्वा न गृह्णीयात्, साधुदानार्थ पीठमश्चनिःश्रेण्यादीनामाहरणायारोहेऽधोऽवनमने पतनादिप्रसङ्गेन सत्त्वहननपरितापनादिसम्भवात् । मृत्तिकोपलिप्तमिति, पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं लाभे सत्यपि न गृह्णीयात् , अशनादिभाजनो
द्भेदनेन पृथ्वीकायादिसमारम्भात्, दत्त्वा च पुनरपि शेषरक्षायै तद्भाजनस्यावलिम्पनेन तस्यैव दोषस्य 10 सम्भवात्। एवं पृथिवीकायादौ सचित्ते प्रतिष्ठितमपि तत्सङ्घटनादिभयान स्वीकुर्यात्। वीजनेन शीतमिति,
अत्युष्णमोदनादिकं भिक्षुप्रतिज्ञया दाता यदि शूर्पव्यजनपल्लववस्त्रादिवीजनेन शीतीकुर्यात्तदिदं विज्ञाय यद्यभिकांक्षसि मे दातुं तत एवंस्थितमेव ददख, मैवं कृथा इति वदेत् , तथापि तथा कृत्वा यदि दास्यति तदाऽनेषणीयमिति कृत्वा न परिगृह्णीयात् । तथा शङ्कितम्रक्षितनिक्षिप्तपिहितसंहृतदायकदोषदुष्टोन्मिश्रापरिणतलिप्तछर्दितलक्षणदशैषणादोषदुष्टमाहारावि वर्जयेत् ॥ ५८ ॥ अथ पानकविषये नियममाह
पानकमपि तथाविधमग्राह्यम् ॥ ५९ ॥ पानकमिति. पिष्टोत्खेदनार्थमुदकं तिलधावनोदकं यद्वाऽरणिकादिसंविन्नधावनोदकं तण्डुलोदकमन्यतरद्वा तथाविधं निजस्खादयुतमपरिणतमविध्वस्तमप्रासुकमनायं भवति, तत्रापि तण्डुलोदके
त्रयोऽनादेशाः, बुद्बुदविगमः, भाजनलमबिन्दुशोषः, तण्डुलपाको वेति यावदेवं तावत्तग्राह्यमिति न 20 मन्तव्यमपि तु यावदुदकं खच्छीभावं न गतं तावन्न प्रायम् , एवंगुणविपरीतं तु प्रायम् , तथा तिलतुषयवोदकान्यवश्यानारनालप्रासुकोदकानि तथाविधमन्यद्वा द्राक्षापानकादीनि पूर्वमेव दृष्ट्वा किश्चित्यानकजातं मे दास्यसीति गृहस्थमापृष्टस्तेन त्वमेवेदं पानकजातं स्वकीयेन पतग्रहेणोत्सिंच्यापवृत्त्य वा पानकभाण्डकं गृहाणेत्युक्तो गृहीयात् , परो वा तस्मै दद्यात् , तदेवं लब्धं प्रायम् , एवं यदि सचित्त
पृथिवीकायादिषु साण्डेषु वा व्यवस्थापितं भिक्षुदेशेन गलद्विन्द्वाविभाजनेन शीतोदकेन मिश्रयित्वाऽऽ25 हत्य दाता देयात्तदा न प्रतिगृह्णीयात् । तत्र द्राक्षापदराम्बिलिकाविपानकजातं तत्क्षणमेव संमर्च क्रियन्ते, आम्राम्बाडककपित्यादिपानकानि द्वित्रादिदिनसम्बन्धेन, तदेवंभूतं पानकजातं कुलकास्मिकास्थिना त्वगाद्यवयवेन बीजेन वा युतं भिक्षुदेशनिष्पादितं वनादिभिः सकृदसकृद्वा परिपीड्य निर्गाल्य चाहतमुद्गमादिदोषदुष्टमग्रामं भवति । आधाकौदेशिकपूतिकर्ममिश्रस्थापनाप्राभृतिकप्रादुष्करणक्रीत
प्रामित्यपरिवर्तिताहृतोनिमालाहृताच्छेचानिसृष्टाध्यवपूरकदोषान्विज्ञाय परिहरेत् ॥ ५९॥ 30 माहाराश्रवण पुनराह
कन्दसर्षपकन्दलीपिप्पलीमरिचाऽऽकाऽऽमपत्रकादिकमपि ॥ ६॥