________________
मुक्ता].
-आचारलक्षणा । दुह्यन्ते तत्र तदा न प्रविशेत् , अन्यथा श्रद्धया तदानीमागतं यतिं विलोक्य गृहपतिरस्मै प्रभूतं ददामीति वत्सकपीडां विदध्यात्, त्रसेयुर्वा गावो विलोक्य तम् , आदिना च यत्राहार उपस्क्रियमाणो भवति तदा तत्र नो यायात् , त्वरया पाकाय ते कृतप्रयत्ना भवेयुस्ततः संयमविराधनाप्रसङ्गः स्यादित्यपि ग्राह्यम् , एकान्ते चावस्थितो वृत्तगोदोहनादि विदित्वा ततस्तत्र यायात् । अप्राप्तमातृस्थान इति, यः कश्चिसाधुर्जवाबलपरिक्षीणतया मासकल्पविहारितया वैकत्रैव क्षेत्रे तिष्ठन्ननुग्राम गच्छतः प्राघूर्णिकान् यद्येवं 5 वदेत् , क्षुल्लकोऽयं ग्रामः सूतकादिना सन्निरुद्धोऽल्पगृहभिक्षादो वा, भवन्तो भिक्षाचर्यार्थ बहिर्गामं व्रजतेति, तथा यो भिक्षुरहं भिक्षाकालादागेव भ्रातृव्यश्वशुरादिसम्बन्धिगृहं भिक्षार्थ प्रवेक्ष्यामि तत्र सरसं भक्तं पेयश्च गृहीत्वा भुक्त्वा पीत्वा पतगृहं संलिख्य प्रमृज्य च प्राप्ते भिक्षावसरेऽविकृतवदनः प्राघूर्णिकभिक्षुभिः साकं पिण्डप्रतिज्ञया गृहपतिकुलं प्रवेक्ष्यामीत्येवमभिसन्धत्ते स मातृस्थानं प्रतिषिद्धं संस्पृशति, एवं यत्राग्रपिण्डाद्यर्थं श्रमणब्राह्मणादयो वयमत्र लप्स्यामह इति त्वरितं त्वरितमुपसंक्रामन्ति 10 तत्राहमपि त्वरितमुपसंक्रमामीति विचिन्तयन् भिक्षुर्मातृस्थानं स्पृशति, अतो नैवं कुर्यात् । अपिहितद्वारमिति, यस्य गृहपतेारं कपाटादिना पिहितं तद्गृहं द्वारमननुज्ञयोद्धाट्य न प्रविशेन वा प्रत्युपेक्षणप्रमार्जनव्यतिरेकेणोद्घाटयेत्, अन्यथा गृहपतेः प्रद्वेषस्य वस्तुनो नाशे साधौ शङ्कायाः पश्वादिप्रवेशस्य च प्रसङ्गेन संयमात्मविराधना स्यात् । ग्लानादिकारणे सति तु स्थगितद्वारिस्थः शब्दं कुर्यात् , स्वयं वा यथाविधि उद्घाट्य प्रविशेत् । तथा निर्गतश्रमणमिति, स्वतः पूर्व प्रविष्टान् श्रमणादीन् 15 विज्ञाय दातृप्रतिग्राहकासमाधानान्तरायभयादेकान्ते व्यवस्थितो भवेत् , तत्र च यदि दाता चतुर्विधमाहारमादाय दत्त्वा च बहवो यूयं भिक्षार्थमुपस्थिताः, व्याकुलतया नाहमिदं विभज्य दातुं समर्थोऽतो निखिलार्थ युष्मभ्यं मया दत्तमिदं स्वरुच्यैकत्र भुग्ध्वं विभज्य वा गृह्णीध्वमिति श्रूयात्तदा तदाहारादिकमुत्सर्गतो न ग्राह्यम् , सति कारणे गृह्यमाणं श्रमणाद्यन्तिके गत्वा गृहपत्युक्तं निवेदयन्तं यदि कश्चित् श्रमणस्त्वमेवास्माकं परिभाजयेति ब्रूयात्तदाऽसति कारणे नैवं कुर्यादिति ॥५६॥ 20
नियमान्तरमाचष्टे___ द्वारावलम्बनधावनोदकप्रक्षेपस्थानादिषु न तिष्ठेत् ॥ ५७ ॥
द्वारेति, दातृगृहद्वारशाखावलम्बनेन न स्थेयात् , जीर्णत्वादितः पतनसम्भवात्संयमात्मविराधनासम्भवात्तथोपकरणधावनोदकप्रक्षेपस्थान आचमनप्रवाहभूमौ वा न तिष्ठेत् , प्रवचनजुगुप्सासम्भवात् , परिदृश्यमानस्नानादिक्रिये स्थाने वा न तिष्ठेत् , दर्शनशङ्कया निःशवं गृहस्थक्रियाऽनिवृत्त्या 25 निरोधप्रद्वेषसम्भवात् । नापि गवाक्षभित्तिसन्धिचौरखातादिद्वारेणाङ्गुलीनिर्देशेन कायनमनोन्नमनाभ्याञ्चालोकयेदन्यस्मै वा दर्शयेत्, हृतनष्टादौ वस्तुनि स्वस्मिन् शङ्कोत्पादप्रसङ्गात् । न वा गृहपतिमङ्गलीचालनादिना भयमुपदर्य वाग्भिः स्तुत्वा वा याचेत, अलाभे वा पुरुषं वदेदिति ॥ ५७ ॥
नियमान्तरमाहउदकादिसंसृष्टं मालाहृतं मृत्तिकोपलितं वीजनेन शीतमग्राह्यम् ॥ ५८॥ 30
उदकादीति, यदाहारादि साक्षात्कादिना सचित्तेन संस्पृष्टं यत्र साधुभिक्षादानार्थ शीतो