________________
७६
सूत्राधमुकायमान
[द्वितीबा समयस्थितिकमित्यादि कालाप्रम् , एकगुणकृष्णाद्विगुणकृष्णं ततत्रिगुणकृष्णमित्यादि भावाप्रमिति । गणनाममेको दश शतं सहस्रमित्यादि । सञ्चयानं सञ्चितस्य द्रव्यस्य यदुपरि तत्सञ्चयानं यथा ताम्रोपस्करस्योपरि शङ्खः। भावाप्रन्तु प्रधानप्रभूतोपकारामभेदेन त्रिविधम् , आद्यं सचित्तादिभेदेन विविधं
सचित्तमपि द्विपदादिभेदानिधा, तत्र द्विपदेषु तीर्थकरश्चतुष्पदेषु सिंहः, अपदेषु कल्पवृक्षः, अचित्तं 5 वैडूर्यादि, मिश्र तीर्थकर एवालवृतः । प्रभूतानन्त्वापेक्षिकम् , यथा जीवपुद्गलसमयद्रव्यप्रदेशपर्यवेषु
यथोत्तरमप्रम् , पर्यायानन्तु सर्वाग्रम् । उपकाराप्रश्च पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे यद्वर्त्तते तत्, यथा दशवैकालिकस्य चूडे, द्वितीयो वा श्रुतस्कन्ध आचारस्य, स एवात्र च सारतया व्याख्यायत इति ॥ ४९॥
तस्य पश्च चूडा भवन्ति पिण्डैषणाया आरभ्यावग्रहप्रतिमापर्यन्तं प्रथमचूडा सप्तसप्तकैका 10 द्वितीया, भावना तृतीया, विमुक्तिश्चतुर्थी, आचारप्रकल्पो निशीथः पञ्चमीति तत्र प्रथमां वक्तुं पिण्डैषणामाहकारणैराहारार्थी प्राण्यादिसंसक्तं रजोऽवगुण्ठितमाई नाहरेत् ॥ ५॥
कारणैरिति, वेदनावैयावृत्त्येर्यासंयमप्राणप्रत्ययधर्मचिन्तनान्यतमैः कारणैरित्यर्थः, कारणैरेभिद्लोत्तरगुणधारी नानाविधाभिग्रहरतो भावभिक्षुराहारग्रहणं करोति, अहमत्र भिक्षा लप्स्य इति भिक्षा15 लाभप्रतिज्ञया गृहस्थगृहानुप्रविष्टस्तत्र चतुर्विधमप्यशनाद्याहारं प्राणिपनकजीवसंस्पृष्टं गोधूमादिबीजैदुर्वाङ्करादिहरितैः संसक्तं सचित्तेन रजसा परिवेष्टितं शीतजलक्लिन्नमीदृशश्चान्यदप्यनेषणीयं लब्धं सदपि नोत्सर्गतो गृहीयात् , अपवादतस्तु दुर्लभद्रव्यं साधारणद्रव्यलाभरहितं सरजस्कादिभावितं वा क्षेत्रं दुर्भिक्षादिकालं ग्लानादिभावं ज्ञात्वाऽल्पबहुत्वं पर्यालोच्य गीतार्थो गृह्णीयात्, कदाचिदनाभोगात्संसक्तादिकं गृहीतश्चेत्तदा तदादायाण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा 20 प्रत्युपेक्षणप्रमार्जनादिविधिना तत्परिष्ठापयेदिति ॥ ५० ॥ अगारिगृहप्रवेशे किं कश्चिनियमोऽस्ति न वा, अस्तीत्याह
तीर्थिकगृहस्थापरिहारिकैर्न प्रविशेत् ॥५१॥ तीर्थकेति, अन्यतीर्थिकैः सरजस्कादिभिः गृहस्थैः मिण्डोपजीविभिर्धिग्जातिप्रभृतिभिः पार्श्वस्थावसनकुशीलयथाच्छन्दरूपैरपरिहारिकैः सहागारिगृहं न प्रविशेत्, उपलक्षणेन पूर्व प्रविष्टो वा 25 न निष्क्रामेदित्यपि विवक्षितम् । अन्यतीर्थिकैगृहस्थैर्वा सह प्रवेशे ते पृष्ठतो वा गच्छेयुरप्रतो वा, अप्रतो यदि साध्वनुमत्या गच्छेयुस्तर्हि तत्कृतेर्याप्रत्ययः कर्मबन्धः प्रवचनलापवश्च स्यात् , तेषां वा खजात्युत्कर्षो भवेत् । अथ पृष्ठतो गच्छेयुस्तर्हि तत्प्रद्वेषः, दातुर्वाऽभद्रकस्य स्यात् , लाभं संविभज्य दात्रा प्रदानादवमौदर्यादौ दुर्भिक्षादौ प्राणवृत्तिर्न स्यादित्यादयो दोषा भवेयुः, अपरिहारिकेण सह प्रवे
शेऽनेषणीयभिक्षाग्रहणाग्रहणकृता दोषाः स्युः, अनेषणीयग्रहणे हि तत्प्रवृत्तिरनुज्ञाता भवेत् , अग्रहणे 30 तु तैः सह शादयो दोषाः स्युरतो दोषानेतान् विज्ञाय साधुर्गृहपतिकुलं न तैः सह प्रविशेनापि निष्कामेत् , एवं तैः सह विचारभूमि स्वाध्यायभूमि वा न यायाविति ॥ ५१ ॥