________________
५७
ललनाममत्वमोचनद्वारम् मृषावादश्च-असत्यभाषणं, ते आदौ येषां ते बन्धुस्नेहविघात-साहस-मृषावादादयः, ते च ते सन्तापाश्च, तेषां भूः-भूमिरुत्पत्तिस्थानम्, अपि च पुनः प्रत्यक्षादृष्टिग्राह्या राक्षसीइति एवंप्रकारैर्बिरुदै-निजगुणतः संप्राप्तनानाभिधानैः, आगमेधर्मशास्त्रे ख्याता-प्रसिद्धा ललना-स्त्री हे साधा ! त्वया त्यज्यतां-दूरतो मुच्यतामिति; एतोषामुपमानानां ललनाया उपमेयतायां हेतुबन्धुस्नेहविघातसाहसमृषावादादिसन्तापभूत्वम्, अत एवंविधोपमानोपमेया ललना त्याज्येति ।।२.८ ।।
इति श्रीतपागच्छनायकश्रीमुनिसुन्दरसूरिनिर्मितस्य तत्पट्टपरम्पराप्रभावकपात-साहिश्रीअकब्बरप्रतिबोधकभट्टारकश्रीहीरविजयसूरिश्रीविजयसेनसूरिप्रमुखपट्टपरंपरा-परिशीलितस्य षोडशशाखस्याध्यात्मकल्पद्रुमस्याधिरोहणीटीकाया सकलशास्त्रारविन्द-प्रद्योतनमहोपाध्यायश्रीकल्याणविजयगणिशिष्योपाध्यायश्रीधनविजयगणिविरचितायां ललनाममतामोचननाम्नी द्वितीया पदपद्धतिः ।।२५।। ___ रत्न.-निर्भूमि विषकंदली-इति. व्याख्या-आगमे-सर्वज्ञप्रणीतशास्त्र, इतिबिरुदैः ख्याता-प्रसिद्धा एवंविधा ललना-स्त्री त्यज्यतां-हीयतां, कर्मोक्तौ युष्माभिरिति कर्तृपदं योज्यं, तानि बिरूदान्याह-इयं ललना विषस्य कन्दली-नवाकुरः, कन्दलशब्दस्त्रिलिङ्गः, किंलक्षणा ? - निर्गता भूमिः-उत्पत्तिस्थानं क्षितिरस्याः सा निर्भूमिः, अपरा विषकन्दली भूमावुत्पद्यते इयं भूमिरहितेत्यर्थः । पुनरियं व्याघ्री वर्त्तते, किंलक्षणा ? - गता दरी-गुहा यस्याः सा, अन्या व्याघ्री दाँ शेते इयं ललना व्याघ्री दरीरहितेति । इयं ललना महाव्याधिर्महान् रोगः किंलक्षणा ? - निर्गता आह्वा-नाम यस्य सः, निर्नामको व्याधिरित्यर्थः । ललना मृत्यु:-मरणं, किंलक्षणः ? - न विद्यते कारणम्-अपथ्यासेवनादि यस्य सः, अपरो मृत्युः सकारणो भवति, अयं ललनारूपो मृत्युरकारण एव, च पुनर्, अदृश्यपातत्वात् स्फुलिङ्गवर्षित्वाद् वज्रमिव या अशनि-विद्युत्, किंलक्षणा ? - न विद्यते अभ्रं-मेघो यस्यां सा अनभ्रा, मेघरहितेत्यर्थः, अपरा अशनिर्मेघसहितेति, अथवा न विद्यते अभ्रम्-आकाशमुत्पत्तिस्थानं यस्याः सा अनभ्रा, अपरा अशनिराकाशे उत्पद्यते, इयं तु आकाशरहितेति, तथा बन्धवः-स्वजनास्, तेषु स्नेहः-प्रेम, तस्य १. निर्भूमी वि - मु० ।