________________
३०६
श्रीअध्यात्मकल्पद्रु
रत्न. - अथ क्रमायातं द्वाभ्यां श्लोकाभ्यां कायसंवरमाह
·
कृपया..इति व्याख्या -हे देहिन् ! त्वं कृपया - करुणया अर्थाज्जीवानां, स्वस्याङ्गं संवृणु, मा इतस्ततोऽविधिना चालयेत्यर्थः कस्मात् ? - कूर्माणां ज्ञातं ज्ञाताधर्मकथागोक्तमध्ययनं तस्य निदर्शनाद्-दृष्टान्तात्, तं दृष्टान्तं परिभाव्येत्यर्थः । अत्रार्थे संवृताऽसंवृताङ्गयोः कूर्मयोर्द्वाभ्यां शृगालाभ्यां सकाशादप्राप्तमरणदुःख-प्राप्तमरणदुःखयोर्दृष्टान्तः षष्ठाङ्गतोऽवसेय इति । तमेव भावमुत्तरार्द्धेन सूचयति, यद्यस्मात् कारणात् संवृतमङ्गमसंवृतं चाङ्गं यैस्ते संवृतासंवृताङ्गाः प्राणिनः क्रमेण सुखानि दुःखानि प्रति चावाप्नुयुः प्राप्नुयुरिति
।।१४.१०।।
[४३२] कायस्तम्भान्न के के स्युस्तरुस्तम्बादयो यताः ? |
-
शिवहेतुक्रियो येषां
कायस् ताँस्तु स्तुवे यतीन् ।।१४.११।।
धनवि . - 1. -अथ केवलस्य कायसंवरस्यासारतां दर्शयन्नुपदिशति
'कायस्तम्भात्' इति, कायस्तम्भात्- केवलकायसंवरात् तरु-स्तम्बादयो-वृक्षस्थाणुप्रभृतयः, आदिपदात् पर्वतादयः, के के पदार्था यताः- संयमिनो न भवन्ति ?, अपि तु सर्वेऽपि भवन्तीत्यर्थः । तु पुनर्-येषां कायः शरीरं शिवहेतुः- मोक्षहेतुः क्रिया-व्यापारो यस्य स शिवहेतुक्रियो भवति, तान् यतीन्- संयमिनोऽहं स्तुवेस्वीमि ।।१४.११।।
-
रत्न. -कायस्तम्भाद् ..इति व्याख्या - कायस्य - शरीरस्य स्तम्भात् स्तम्भनात् नियमनात्, अचालनादित्यर्थः, के के ? - तरु- स्तम्भादयः - तरवः एव स्तम्भाकारत्वात्, स्तम्भास्ते आदौ येषां ते तरु-स्तम्भादयः, अथवा तरवश्च स्तम्भाश्च तरुस्तम्भास्ते आदौ येषां ते तरु-स्तम्भादयः, स्तम्भादय इति कथनेनाचेतनाः काष्ठ-पाषाणादिनिष्पन्नाः स्तम्भा गृहीताः, आदिशब्दाद् ये कायव्यापारासमर्था