SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३०५ मिथ्यात्वादिसंवरोपदेशद्वारम् ।। इति ।।१४.९।। [४२९] कृपया संवृणु स्वाङ्ग, कूर्मज्ञातनिदर्शनात् । संवृताऽसंवृताङ्गा यत्, सुख-दुःखान्यवाप्नुयुः ।।१४.१०।। धनवि.-अथ काययोगसंवरमुपदिशन्नाह - 'कृपया' इति, कृपया-जीवदयया जीवदयालक्षणहेतुना स्वाङ्ग-स्वकायं संवृणुनिरुन्द्धि, यद्-यस्मात् संवृता-ऽसंवृताङ्गाः-संवृतं चासंवृतं च अङ्गं येषां ते तथा, कूर्माः-कच्छपाः ज्ञातनिदर्शनाद्-ज्ञातधर्म-कथाङ्गोक्तदृष्टान्तात् सुखदुःखान्यवाप्नुयुः-प्राप्नुवन्ति, तत्र संवृताङ्गाः-संलीनगात्राः कूर्माः सुखं-स्वकुटुम्बमिलनदीर्घजीवित्वादि शर्म अवाप्नुयुः, असंवृताङ्गाः-असंलीनगात्राश्च कूर्मा दुःखंनानाप्रकारां मारणकदर्थनामवाप्नुयुरित्यर्थः; सुखं च दुःखं च 'सुख-दुःखम्' इति पाठे-'विरोधिनामद्रव्याणां नवा द्वन्दवः स्वैः [सि. ३-१-१३०] इत्यनेन समाहारद्वन्द्वः , सुखदुःखानि इति पाठे वितरेतरद्वन्द्व इति । अत्र कूर्मदृष्टान्तो ज्ञाताधर्मकथाङ्गादवसेयः, तत्सूचकं च गाथाद्वयं ज्ञातावृत्ति-गतम् - [४३०] "विसयसुहं रुंभंता जीवा ते रागदोसनिम्मुक्का । पावंति निव्वुइसुहं कुम्मो व्व मयंगदहसोक्खं ।।[ज्ञा.वृ.१] ।। [४३१] इयरे उ अणत्थपरंपराउ पावंति पावकम्मवसा संसारसागरागया गोमायुग-सियकुम्मो वा ।[ज्ञा.वृ.२] ।। 'तस्यायमुपनयः-संवृताङ्गाः पुरुषाः पापशृगालेभ्योऽसंवृताङ्गकच्छपा इव दुःखमाप्नुवन्तीति ।।१४.१०।। १. विषयसुखं निरुन्धन्तो जीवास्ते निर्मुक्तरागद्वेषाः | प्राप्नुवन्ति निवृतिसुखं कूर्म इव मृतांगह्रदसौख्यम् ।।१।। इतरे त्वनर्थपरम्पराः प्राप्नुवन्ति पापकर्मवशाः संसारसागरगता गोमायुग्रस्तकूर्म इव ।।२।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy