________________
मिथ्यात्वादिसंवरोपदेशद्वारम्
मुपदिशन् पूर्वं मनोयोगनिरोधमुपदिशति
—
'मनः संवृणु' इति, हे विद्वन् ! हे धीमन् ! त्वं मनो-मानसं संवृणुदुष्टविषयेभ्यो निवर्तय; यतः कारणाद् - असंवृतमना-अनिरुद्धचित्तः, तन्दुलमत्स्यःतन्दुलनाम्ना प्रसिद्धो मत्स्यो - मीनो द्राक् शीघ्रं सप्तमीं नरकावनी- महातमःप्रभानाम्नीं सप्तमनरकपृथ्वीं याति-गच्छति । अत्र तन्दुलमत्स्यस्वरूपं चेदम्; तन्दुलमत्स्यः पुनर्यो महामत्स्यस्य चक्षुःपक्ष्मणि तन्दुलप्रमाणोऽन्तर्मुहूर्त्तायुरुपजायते, तथाविधदारुणमपरिणामेन चान्तर्मुहूर्तेन तादृगायुर्बद्ध्वा सप्तमं नरकं गच्छतीति, उयुपदेशरत्नाकरे द्वितीयतटे तृतीयांशे नवमगाथायां; पुनर् उपदेशरत्नाकरे एव यथा तन्दुलमत्स्यः प्रसुप्तमहामत्स्यविकस्वरवदने जलोर्मिवशात् प्रविशतो निर्यतश्च बहून् मत्स्यान् वीक्ष्य तद्ग्रासाध्यावसायभृदिति मध्याधिकारे पञ्चमतरङ्गे इति
।।१४.२।।
रत्न. -अथ सर्वत्र मनसः प्राधान्यात् मनःसंवरमाह
मनः संवृणु..इति व्याख्या - हे विद्वन् ! - हे पण्डित ! त्वं मनः प्रति संवृणु, यतः कारणाद् असंवृतं मनो येन सोऽसंवृतमनाः, तन्दुलप्रमाणो मस्यः, तन्दुलमत्स्यो द्राक्-शीघ्रं सप्तमीं नरकावनीं - नरकपृथिवीं याति, तत्र मन एव मूलं निमित्तं, सप्तमपृथिव्यागतो महामत्स्याक्षिस्थितमत्सीगर्भजोऽन्तमुहूर्त्तायुष्को महामत्स्यप्रसारितास्यान्निर्गच्छतो बहून् मत्स्यान् दृष्ट्वा 'यद्येतादृश- महाकायोऽहमभवं तदिमन् सर्वान् एकहेलमेवौष्ठपुटमीलनेन कवलीकरोमि इति दुर्ध्यानपरो मृत्वा पुनरन्तर्मुहूर्तान्तरेण सप्तमीं नरकपृथिवीं यातीत्यागमः । एवं काय - वचोभ्यामशक्तो मनोव्यापारत एव दुर्गतिं यातीति ।।१४.२।।
[४१६] प्रसन्नचन्द्रराजर्षेर्मनःप्रसर-संवरौ ।
1
नरकस्य शिवस्यापि हेतुभूतौ क्षणादपि ।।१४.३।।
२८९
-
धनवि . - - पुनर्मनोयोगसंवरं दृष्टान्तपूर्वकमुपदिशति
१. तदैतान् - मु० ।