________________
२८८
श्रीअध्यात्मकल्पद्रुमे ___ अत्र १. अभिग्रहिकं पाखण्डिनां स्वस्वशास्त्रनियन्त्रितविवेका-ऽऽलोकानां परपक्षप्रतिक्षेपदक्षाणां २. अनाभिग्रहिकं च प्राकृतजनानां सर्वे देवा वन्द्याः, न निन्द्याः, एवं सर्वे गुरवः सर्वे धर्माश्चाराध्या इति ३. आभिनिवेशिकं च यथास्थितं वस्तु जानतोऽपि दुरभिनिवेशप्लावितधियो गोष्ठामाहिलादेरिवेति ४. सांशयिकं च देव-गुरु-धर्मेषु'अयमयं वा इति संशयानस्येति ५. अनाभोगिकं च विचारशून्यस्यैकेन्द्रियादेर्विशेषज्ञानविकलस्येति अविरतिश्च-विरतिराहित्यं; योगाश्चअशुभमनो-वाक्-कायव्यापाराः; प्रमादाश्च-विषय-कषायादयः; ततो द्वन्द्वः । यद्-यस्मात् कारणाद्, असंवृता-अनिरुद्धा एते मिथ्यात्वादयो भवतापं-संसारस्य परितापं दद्युः-प्रयच्छन्ति स्म; च पुनः, सुसंवृता-निरुद्धा एते मिथ्यात्वादयो मुक्तिरमां-मोक्षलक्ष्मी दधुः-प्रयच्छन्ति स्म ।।१४.१।।
रत्न.-अथ सामान्यतो यतीन् विशेषतो धर्मस्थगृहिणश्चाश्रित्य मिथ्यात्वाऽऽदिसंवरोपदेशाख्यश्चतुर्दशोऽधिकारो विवरीतुं प्रक्रम्यते, - तत्र प्रथमं बन्धहेतुसंवरमाह -
मिथ्यात्व-योगा-ऽविरति. इति. व्याख्या-हे आत्मन् ! मिथ्यात्व-योगा-ऽविरतिप्रमादान् चतुरोऽपि बन्धहेतून्, त्वं सदा संवृणु, किं कुर्वन् ? - इच्छन्, किं? - सौख्यं, यद्-यस्मात् कारणात्, एते चत्वारोऽप्यसंवृताः सन्तो भवस्य-संसारस्य, तापं-कष्टं दद्युः-ददति स्म, च पुनरेते सुसंवृताः सन्तो मुक्तिरमां-मोक्षलक्ष्मी दद्युरिति ।।१४.१।।
[४१५] मनः संवृणु हे विद्व
नसंवृतमना यतः | याति तेन्दुलमत्स्यो द्राक्,
सप्तमी नरकावनीम् ।।१४.२।। धनवि.-यति-श्रावकयोः प्रायो मिथ्यात्वासंभवेन मिथ्यात्वमुपेक्ष्य योगनिरोध
१. धर्ममय० मु० । २. मुद्रित प्रतौ मूले टीकायां च 'तण्डुल' इति पाठः |