SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७४ श्रीअध्यात्मकल्पद्रुमे ___ "दधद्' इति, गृहस्थेषु-अगारिषु ममत्वबुद्धिं, 'ममायं भक्त' इत्यादिमतिं दधत्-धरन् तदीयतप्त्या-गृहस्थसुख-दुःखचिन्तया, परितप्यमानः-परितापं कुर्वन्, अनिर्वृतान्तःकरण:-अनिर्वृतम्-असुखितमन्तःकरणं-चित्तं यस्य स तथा सन्, सदासर्वकालं स्वै-आत्मीयपापैः, च पुनस्,-तेषां गृहस्थानां पापैः-दुष्कृतैर्भवे-संसारे भ्रमितासि-भ्रमणकर्ताऽसीत्यर्थः ।।१३.४६ ।। [३८९] त्यक्त्वा गृहं स्वं परगेहचिन्ता तप्तस्य को नाम ? गुणस्तवर्षे ! । आजीविकाऽऽस्ते यतिवेषतोऽत्र, सुदुर्गतिः प्रेत्य तु दुर्निवारा ||१३.४७ ।। धनवि.-अथानन्तरोक्तायाः परतप्तेरकरणमेव दृढयन्नुपदिशति - 'त्यक्त्वा गृहम्' इति, हे ऋषे ! - हे मुने ! स्वम्-आत्मीयं, गृहम्-अगारं त्यक्त्वा-विमुच्य परगेहचिन्तातप्तस्य, नामेति कोमलामन्त्रणे, तव कः ? . किंनामा गुण:-उपकारः, स्वसुखदायक इत्यर्थः; नन्वाजीविकालक्षणो गुणोऽस्त्येवइत्याशङ्कायामाह-आजीविकेति, यद्यप्याजीविका-उदरपूरणोपायलक्षणो गुणोऽत्रइह भवे यतिवेषतः-रजोहरणादियतिलिङ्गधरणतः आस्ते-वर्त्तते, तु पुनस्तथापि प्रेत्य-परभवे सुष्ठु-अतिशयेन दुर्गतिः-नरकादिलक्षणा दुर्निवारा-दुःखेन नितरां वार्यते-निराक्रियते इति दुर्निवारा आस्त इति ।।१३.४७।। रत्न:-अथ गृहस्थानां तप्तिं कुर्वाणं यतिं प्रति काव्यद्वयेन किञ्चिदुपदिशन्नाह १. दधद् गृहस्थेषु. इति. २. त्वक्त्वा गृहम्-इति. व्याख्या-हे यते ! गृहस्थेष्वाद् भक्तेष्वित्यर्थः, त्वं ममत्वबुद्धिम्-'एते मदीया गृहस्थाः'-इति ममताधियं दधद्दधानः सन्, तत एव तदीयया गृहस्थसंबन्धिन्या तप्त्या-कलत्र-सन्तान-धनसद्भावा-ऽभावतज्जनितसुख-दुःखादिचिन्तया परितप्यमानः-सुख-दुःखकरणनिवारणासामर्थ्य सति संतापं भजन्, तत एव सदा निरन्तरमनिर्वृतंनिर्वृत्तिमनापन्नमन्तःकरणं यस्य सः, एवंविधः सन् स्वैः-स्वकीयैः, च पुनस्,
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy