________________
यतिशिक्षोपदेशद्वारम्
२५१
,पुनस् त्व क्व ? इत्यक्षरयोजना, भावार्थस्त्वयम् - येषां जनानां रञ्जनाय त्वमेतावदिह भवे करोषि, ते जनाः स्वकृतकर्मवशगाः परभवे कस्यामपि गतौ गमिष्यन्ति, त्वं च कस्यामपि गमिष्यसीति किं जनरञ्जनेनेति ।।१३.२३ । ।
रत्न.–अथ जनरञ्जनार्थं शास्त्रं पठसि परं भवान्तरे ते जनाः क्व ?, त्वं च क्वेति ज्ञापयति
1
अध्येषि शास्त्रम्..इति व्याख्या - हे मुने ? त्वमिह लोके येषां जनानां "रञ्जनाथ रञ्जनाय सत - शोभनं जिनागमादि अवितथवाक्यत्वाद्, असद् - अशोभनं शाक्यादिविरचितं परस्पराहतवाक्यत्वात्, शास्त्रमध्येषि पठसि च पुनर्विचित्रालापादिभिः-नानाजल्पनादिभिस्त्वं ताम्यसि - काङ्क्षसि, किंलक्षणैः ? समायैःमायासहितैरावर्जकार्थैरित्यर्थः येषां जनानां रञ्जनायेति पदमिहापि योज्यं, परं भवान्तरे ते जनाः क्व ?, च पुनस्त्वं क्व ?, द्वौ क्वशब्दौ अत्यन्तासङ्गतिं ब्रूतः, न जाने ते जनाः परत्र कां गतिं गामिनः ? त्वं च कां गतिं गमीति, तेन पररञ्जनप्रवृत्तो मा भव, स्वरञ्जनप्रवृत्तो भवेति भावः, अथवा सदसद्द्द्विचित्रालापादिभिरित्यखण्डं पदं, अर्थतस्तु सुगममिति न व्याख्यातमिति ।। १३.२३ ।।
·
-
[३५९] परिग्रहं चेद् व्यजहा गृहादेस्
तत् किं नु धर्मोपकृतिच्छलात् तम् । करोषि ? शय्योपधिपुस्तकादेर्
गरोऽपि नामान्तरतोऽपि हन्ता ।।१३.२४।।
धनवि . - . ननु भवान्तरे जनरञ्जनं निष्फलम्, अपीहभवे धर्मोपकरणकारणं भवतु इत्याशङ्कायामुपदिशति -
'परिग्रहम्' इति, चेद्-यदि गृहादेः-मन्दिरादेर्यं परिग्रहं व्यजहाः - अत्याक्षीरित्यर्थः, अत्र'आदि'पदाद् द्विपद- चतुष्पदा - ऽऽदिपरिग्रहः, व्यजहा इति - विपूर्वस्य ओहांक् त्यागे [है.धा११३१] इत्यस्य ह्यस्तनीयुष्मदर्थैकवचने साधु, तत्- तदा नु वितर्के १. रञ्जनार्थम् इति पदं मूलत्वेनापि गृहीतम् । २. अत्र 'पदं' इति गम्यम्, पदस्य च नपुंलिङ्त्वेन 'साधु' नपु. जाति योग्या ।