________________
श्रीअध्यात्मकल्पद्रुमे
वन्दनादिभिर्न कश्चिद् गुणी भवेद्, अत्र चशब्दोऽध्याहार्यः, आदिपदादभ्युत्थानाऽऽसनदाना-ऽऽदिपरिग्रहः; यतः कारणाद् गुणान् ज्ञान-दर्शन- चारित्रान् विनाअन्तरेण, भवदुःखसंक्षयः- सांसारिक - दुःखविध्वंसो न भवेत्, ततः कारणाद् गुणान्ज्ञानादीन्, अर्जय-समुपार्जयः स्तवादिभिः स्तव - ख्याति - दाना-ऽर्चनादिभिः किं भवतीति ?, अपि तु किमपि न भवतीत्यर्थः । ।१३.२२ ।।
रत्न.-अथ तेन स्तवादीच्छां विहाय, गुणोपार्जनं कुर्वित्युपदिशति
भवेद् गुणी..इति. व्याख्या - हे मुने ! मुग्धैः - अनभिज्ञैः ऋजुभिरित्यर्थः कृतैः स्तवैः करणैर्हि निश्चितं गुणी-गुणवान् न' भवेत्, तथा ख्यातिः-ज्ञानादिगुणैः प्रसिद्धिः, ख्याति-दाना-ऽर्चना -ऽऽदिभिरपि गृहस्थकृतैर्गुणी गुणवान् न भवेत्, तथा गुणान्-ज्ञान-दर्शन- चारित्रादिसत्कान् विना भवस्य - संसारस्य दुःखानां संक्षयःसर्वथा निवृत्तिलक्षणो नो- नास्ति, ततो हेतोस्त्वं तान् गुणानर्जय-स्वनिष्ठान् कुरु, स्तवादिभिः किं ? न किमपीत्यर्थः, आपातरम्यत्वादिति ।।१३.२२ ।।
२५०
[३५८] अध्येषि शास्त्रं सदसद् विचित्रा
ऽऽलापादिभिस् ताम्यसि वा समायैः ।
-
येषां जनानामिह रञ्जनाय,
भवान्तरे ते क्व ? मुने ! क्व ? च त्वम् ।।१३.२३ ।। धनवि.—नन्वनन्तरोक्तो दुःखसंक्षयो मा भवतु, जनरञ्जनमेव भवतु, इत्याशङ्कायामुपदिशति
'अध्येषि' इति, हे मुने ! इह भवे येषां जनानां रञ्जनाय सच्छास्त्रंधर्मशास्त्रम्, असद्-वात्स्यायनादिशास्त्रं व्याकरण-प्रमाण- ज्योतिःशास्त्रलक्षणं वा, ग्रन्थमध्येषि पठसि वा अथवा येषां जनानां रञ्जनाय समायैः सकपटैर्विचित्राऽऽलापादिभिः-नाना-प्रकारसंभाषणादिभिः, ताम्यसि - खिद्यसि, अत्र 'आदि' दे 'पदाद्धर्मलाभाशीर्वाददानादिपरिग्रहः, ते जना भवान्तरे- परभवे, क्व ?
कुत्र, च
१. धन वि.-टीकायां 'नहि' इत्येकं पदं कृत्वा विवृतम् ।