________________
२३२
श्रीअध्यात्मकल्पद्रुमे न्याय-पण्डितलोकप्रतिपादनव्यवहारं, बिभर्षि-पुष्णासि धरसि वा । अजागलकतरीन्यायस्त्वयम्- यथा-काचिदजा शौनिकेन हननार्थं सज्जीकृता सहसा च भूपतितां धूलिपटलान्तः-प्रच्छन्नीभूतां कर्तरी जातिस्वभावेन पादजनितभूखननादिना स्वयमेव स्वघातिकां, प्रकटीकरोति, तथा त्वमपि चारित्रं विना केवलेन वेषण पूजास्पृहयोपधिस्पृहया च स्वयमेव नरकमर्जसीति भावः ।।१३.५।।
रत्न.-पुनः केवलो वेषो न प्रमाणमिति भङ्ग्योपदिशति -
वेषेण माद्यसि..इति., व्याख्या-हे आत्मन् ! त्वं यतेर्वेषेण माद्यसि-हृष्यसि, कथं ? - विना, किं ? - चरणं-चारित्रं, च पुनस्, त्वभिगम-वन्दन-नमस्यनसत्कारादिकां पूजां वाञ्छसि, च पुनर्, बहुधा-बहुप्रकारेणोपधिं-वस्रपात्रकम्बलादिकं वाञ्छसि, कस्माद् ? - जनाद् भक्तादित्यर्थः, परं त्वं पश्चान्नरके गन्ताऽसि, किंलक्षणे ? - मुग्धानां श्राद्धानां प्रतारणं-वञ्चनं बकवत् कपटेर्यापथगमनमुखवस्त्रिकादान-रजोहरणप्रमार्जन-बाढस्वरप्रतिक्रमणकरण - स्वाध्यायकरणादिकं तस्माद् भवतीति मुग्धप्रतारणभवस्-तस्मिन्, तत्-तर्हि त्वं अजागलकर्तरीति न्यायं बिभर्षि-धत्से, यथाऽजा नीलतृणादिकं भुजाना कण्ठे घुर्घरकं दधाना पादयोपुरे बिभ्राणा सती माद्यति, परं कदाचित् प्राघूर्णकेष्वागतेषु मम केन्दले कर्तरी पतिष्यतीति न वेत्ति, तथा त्वमपि निर्मलरजोहरण-मुखवस्रिका-तादृक्कल्पचोलपट्टादिवेषेण माद्यसि, राज-महेभ्याभिगमनादिसत्कारं वाञ्छसि, मुग्धजनप्रतारणेनोपधिं मेलयसि, परं धावदायास्यन्तं नरकं न पश्यसीत्युपनयमात्रं, तथा क्वचिद् अजवधकेन वधस्थानं नीता, स वधकोऽजापार्श्वे अजोवधोपकरणं कर्तरी मुक्त्वा, कार्यार्थं गृहान्तर्गतः, तयाऽजया पादाभ्यां भूमिं खनित्वा कर्तरी भूम्यन्तर्निक्षिप्ता, परं कर्तरीधारोपरि स्थिता, अथ वधक आगतस्सन्, 'निक्षिप्तामिमां मा पश्यतु इति धिया तदुपरि शयानायास्तस्या गले एव कर्तरी समागता, सा मृता, कश्चिदनया रीत्या अजागलकतरीन्यायं वदति । अथोपनय उच्यतेत्वमजावदज्ञानान्नरकमाच्छादयसि परमवश्यंभाविभावत्वात् तव नरक आयास्यत्येवेति, १. मुखवस्त्रिकाकरण - मु० । २. कंदलः देश्योऽयं शब्दः (दे.२.४) कपालपर्यायः |