________________
यतिशिक्षोपदेशद्वारम्
२३१
वेषमात्राद्-ज्ञान-दर्शन-चारित्ररहितकेवलरजोहरणादिलिङ्गमात्रान्न बिभेतीति ।
रत्न. - पुनर्वेषमाश्रित्यैवोपदिशति
आजीविकार्थम्...इति., व्याख्या - हे नामसाधो ! इह जिनप्रवचने एष त्वं आजीविकायै-आजीविकार्थं, यद् यतिवेषं धत्से-दधसे, तुरिति विशेषे, कष्टेभ्योलोचोष्णनीरपानादिभ्यो भीरुः सन् अमलं- निरतिचारमलं चरित्रं चारित्रं न धत्से, तत्-तर्हि त्वं न वेत्सि न जानासि ? काकूक्त्या व्याख्यानं, यत् एष मृत्युः कुतोऽपि न बिभेति, धावमान आयास्यत्येव च पुनर्, नरकः केवलं वेषो वेषमात्रं तस्माद्, धर्मग्रहणे धर्मिग्रहणमिति न्यायात् केवलवेषधारिण इत्यर्थः, न बिभेति, किंलक्षणः ? जगन्ति प्रति जिघृक्षुः- ग्रहीतुमिच्छुः नरकोऽपि तथैव, प्रायेण भूयान् जनो नरकगाम्येव तेन मृत्युरकाङ्क्षमाणोऽपि आयास्यत्येव, वेषेण मुग्धजनविप्रतारणसमुत्थपापभरादकाङ्क्षमाणोपि नरकोऽप्यायास्यत्येवेति केवलं वेषधारणं निरर्थकमेवेति ।।१३.४।।
-
,
[ ३३९] वेषेण माद्यसि यतेश्चरणं विनाऽऽत्मन् !,
पूजां च वाञ्छसि जनाद् बहुधोपधिं च । मुग्धप्रतारणभवे नरकेऽसि गन्ता,
न्यायं बिभर्षि तदजागलकर्त्तरीयम् ।।१३.५।।
1
धनवि.—अथ विरतिविरहिते केवलवेषधारणे प्रत्युत दोषं दर्शयन्नुपदिशति'वेषेण माद्यसि' इति, हे आत्मन् ! त्वं चरणं चारित्रं विना, यतेर्वेषेणमुनिलिङ्गेन माद्यसि-हृष्यसि तच्च, 'मदैच् हर्षे' [ है. धा १२३६ ] इत्यस्य 'शमसप्तकस्य' [सि.हे. ४-२ - १११] इति दीर्घत्वे माद्यसीति साधुः च पुनः पूजां-चन्दनादिनाऽर्चां जनाद्-भक्तलोकाद्, बहुधा बहुप्रकारं नानाप्रकारं वस्त्रपात्रलक्षणम्, उपधिं वाञ्छसि;
अनन्तरोक्ते फलं दर्शयति-मुग्धप्रतारणभवे-निर्विवेकवञ्चनोत्पन्ने नरके-दुर्गतिरूपे त्वं गन्ता-याताऽसि, तत्-तस्मात्-त्वम् अजागलकर्तरीयम्-अजागलकर्त्तरीसत्कं