________________
१५६
श्रीअध्यात्मकल्पद्रुमे
-
,
रत्न. -अथ मनसः समाधेरुपायमाह - स्वाध्याय - यौगैरिति, व्याख्या - सुधीःसद्बुद्धिः पुमान्, मनः प्रति निरुन्ध्यात्-निरोधं कुर्यात् कैः ? सु-सुष्ठु आसमन्तात् मर्यादया वा अध्यायः - अध्ययनं यस्य स स्वाध्यायो - जिनागमः, तस्य योगा-आचामाम्लादितपोविशेषाः तैः, योगोद्वहनैरित्यर्थः, योगोद्वहनपूर्वकं स्वाध्यायः कृतो महाफलदायको भवतीति मूलकारणमुक्तं, अथवा सुष्ठु अध्याय- अध्ययनं द्वादशाङ्ग्याद्यध्ययनं, तस्य योगा योजनानि, तैः वारं वारं स्वाध्यायकरणैरित्यर्थः, च पुनर्व्यापारणैः-व्यापृतिभिः, अर्थात् मनस इत्यध्याहार्यं, कासु ? चरणस्यचारित्रस्य क्रियाः-प्रतिक्रमण-कायोत्सर्गादिकास्तासु तथा काभिः ? अनित्यत्वचिन्तनादिभिर्द्वादशभावनाभिः पुनः कः ? त्रयाणां योगानां मनोवचन-कायलक्षणानां समाहारस्- त्रियोगी, त्रियोग्याः सदसत्प्रवृत्ती, त्रियोगीसद सत्प्रवृत्ती, तयोः फलानि तेषामुपयोगाः- चिन्तनानि तैः त्रियोग्याः शुभप्रवृत्तेः फलानि कानि ? अशुभप्रवृत्तेश्च फलानि कानि ? इत्युपयोगदानैरित्यर्थः ।।९.१६ ।।
1
[२३८] भावनापरिणामेषु, सिंहेष्विव मनोवने ।
1
सदा जाग्रत्सु दुर्ध्यानशूकरा न विशन्त्यपि ।।९.१७ । ।
-
धनवि . - अथ मनोनिरोधद्वारमुपसंहरन् मनोनिरोधोपायभूतायाः पूर्वोक्ताया भावनाया माहात्म्यं प्रकाशयन्नाह
'भावनापरिणामेषु' इति मनोवने- मन एव - चित्तमेव वनं-काननं मनोवनं, तस्मिन् मनोवने भावनापरिणामेषु भावनाया अनन्तरोक्तायाः परिणामेषु-अध्यवसायेषु, सदासर्वकालं जाग्रत्सु निद्रारहितेष्वर्थादनुभूयमानेषु दुर्ध्यानशूकरा - दुश्चिन्तनरूपा वराहा न विशन्त्यपि-प्रविशन्त्यपि नेति, अत्र सिंहेष्विव' इतीव-यथा, मनःसदृशे वने भावनापरिणामसदृशेषु सिंहेषु पञ्चाननेषु सदा जाग्रत्सु दुर्ध्यानसदृशाः शूकरा न प्रविशन्तीत्युपमानयोजना, अत्र' अपिशब्दो मनोवने भावनापरिणामेषु जाग्रत्सु दुर्ध्यानशूराणां प्रवेशोऽपि न भवति तदा तेषां तत्र स्थितिः कौतस्कुतीत्यर्थद्योतकः
।।९.१७।।