________________
१५५
चित्तदमनद्वारम् समाधि-स्वास्थ्यं भेज-श्रय, परंपरया सर्वेषां मूलत्वादिति ।।९.१५।। [२३७] स्वाध्याय-योगैश्चरणक्रियासु,
व्यापारणैादशभावनाभिः | सुधीस् त्रियोगीसदसत्प्रवृत्ति
फलोपयोगैश्च मनो निरन्ध्यात् ।।९.१६ ।। धनवि:-अथ मनोनिग्रहोपायं दर्शयन्नुपदिशति -
'स्वाध्याय-योगैः' इति सुधी:-पण्डितः स्वाध्याय-योगैः-स्वाध्यायाश्च-वाचना १-प्रच्छना २-परावर्त्तना ३-ऽनुप्रेक्षा ४-धर्मंकथाभिधाः ५-पञ्चविधाः, योगाश्चसिद्धान्ता-ऽध्ययनायोद्देशसमुद्देशाऽनुज्ञादिकापूर्वक्रियाविशेषाः संप्रदायगम्याः, यद् वा पञ्चविधानां स्वाध्यायानां योगा-व्यापाराः तैर्मनो निरन्ध्यात-चेतोनिग्रहं कुर्यादित्यर्थः, एतावताऽशुभवाग्व्यापारनिरोधेन मनोनिरोधः कर्त्तव्य इति प्रतिपादितं, च पुनश् चरणक्रियासु-प्रतिलेखन-प्रमार्जन-कायोत्सर्गादिषु शुभानुष्ठानेषु कायव्यापारणैः-प्रवर्त्तनैः सुधीर्मनो निरन्ध्यादित्येतेना-ऽशुभकायव्यापारनिरोधेनापि मनोरोधः कर्त्तव्य इति प्रतिपादितं, च पुनर्वादशभावनाभि-द्वादश चद्वादशसङ्ख्याकास्ता भावनाश्च, १- अनित्यता २.-ऽशरण ३.-भव ४.-एकत्व ५.अन्यता ६.-अशौच ९.-आश्रव ८.-संवर ९.-निर्जरा १०-धर्म ११.-लोक १२.बोधि लक्षणाः ताभिः सुधीर्मनो निरुन्ध्याद्, एतेन मनोयोगनिरोधेनापिं मनोनिरोधः कर्तव्य इति प्रतिपादितं, च पुनस्त्रयाणां मनो-वाक्-काययोगानां समाहारसत्रियोगी, तस्याः सती च असती च सदसती ते च ते प्रवृत्ती च, तयोः फलंशुभाशुभं कर्म सुखदुःखं वा, तस्य, उपयोगा-सत्प्रवृत्त्या शुभकर्मोपार्जना भवति, असत्प्रवृत्त्या चाशुभकर्मोपार्जना भवतीति चिन्तनरूपा तैर्मनोयोगं निरुन्ध्यादिति, यद् वा त्रयो योगा यस्य स त्रियोगी सुधीरित्यस्य विशेषणं, शेषं पूर्ववदिति ।।९.१६।। १. धनवि. भर = धर तथा रत्नवि. मूलत्वेनापि भज = श्रय, - इतिपाठभेदः, भरणकार्यं तु बलवता भवति, श्रयणं तु बलवत्त्वे सत्यपि विनयवतैव भवति - इति भावार्थभेदः स्यादपि ।