SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ चित्तदमनद्वारम् ___. १५३ 'अकृच्छ्रसाध्यं' इति वशीकृतात्-निगृहीताच्छुभयोगव्यापृताद् वा मनसः अकृच्छ्रसाध्यम्-अकष्टसाध्यं सुखसाध्यमित्यर्थः, पुण्यं-सुकृतं भवति, अशुभविषयान्तरसञ्चारादिना व्याघाताभावात्, च पुनर्वशी-कृतान्मनसः, परं-प्रकृष्टं स्वर्गादिप्रापणप्रवणं पुण्यं भवतीत्यन्वयः, मनसः शुभयोग-व्यापारणात् स्वर्गप्राप्तिप्रसिद्धेः श्रूयमाणत्वात्, मनसो निरोधेऽपवर्गप्राप्तिप्रसिद्धेः श्रूयमाणत्वाच्च; तु पुनर्यस्य पुंसस्-तत्-मनो वशं-निगृहीतं नास्ति, स पुमान् पुण्यचयैः-सुकृतसमूहैः, च पुनस्-तदुद्भवैः-पुण्यचयोद्भवैः फलैः स्वर्गादिभिः, वञ्चितो-वञ्चनाविषयीकृतः सन् हतकः-हत एव हतको निन्द्यो, ही हीति खेदे, किं करोत ? किं साधयतु, अपि तु न किञ्चिदपि करोतीत्यर्थः ।।९.१३।। रत्न.-अकृच्छ्रसाध्यम् इति, व्याख्या-चेति विशेषोक्तौ वशीकृतात् मनसः परम्-अन्यत् पुण्यं तपोजपादिकं, कृच्छ्रेण-कष्टेन साध्यं, कृच्छ्रसाध्यं, न कृच्छ्रसाध्यमकृच्छ्रसाध्यं वर्त्तते, तु पुनर्यस्य तन्मनो वशम्-आयत्तं न वर्त्तते, स प्राणी वञ्चितः, कै? - पुण्यचयैः-सुकृतसमूहैः, च पुनस्तेभ्यः-पुण्यचयेभ्यः उद्भवैः फलैरपि वञ्चितः, तेन हत एव हतक:-कर्मदण्डितो, हीहीति वीप्सायां खेदे, किं करोत?, अपि तु न किमपि, सर्वथा निर्गतिक इत्यर्थः, किमिति प्रश्ने निन्दार्थे वाऽव्ययम् ।।९.१३।। [२३५] अकारणं यस्य च दुर्विकल्पैर् हतं मनः शास्त्रविदोऽपि नित्यम् । घोरैरधैर्निश्चितनारकायुर् मृत्यौ प्रयाता नरके स नूनम् ।।९.१४ ।। धनवि.-अथाधीतस्यापि पुंसो मनोनिग्रहाभावेऽनिष्टफलं दर्शयन्नुपदिशति - - 'अकारणं' इति यस्य शास्त्रविदा-सिद्धान्तरहस्यज्ञस्य, अपि सुदुर्विकल्पैःअतिशयेन दुश्चिन्तनैर्नित्यं-सर्वकालं मनः-चित्तम्, अकारणं-निष्कारणं निरर्थकं हतं-पराभवविषयीकृतं, अत्राकारणता च सर्वस्यापि दुश्चिन्तितस्य पदार्थस्य प्राप्तेरभावात्, स पुमान् घोरैः-भयङ्करैः, अधैः-पापैः पापकर्मभिर्निश्चितनारकायु:
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy