SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५२ श्रीअध्यात्मकल्पद्रुमे ___ 'तपो-जपाद्याः' इति दुर्विकल्पैर्हतचेतसः-अशुभध्यानैर्हतचेतसः-उपहतचित्तस्य पुंसः, तपो-जपाद्या आद्यपदात् स्वाध्यायप्रमुखा धर्माः स्वफलाय-तत्त्वतो मोक्षफलाय न स्युः, तत्-तस्मात् कारणात् स दुर्विकल्पहतचित्तः पुमान् खाद्य-पेयैः-अशनपान-खादिम-स्वादिमैः [सुष्ठु भृते-संपूर्णेऽपि गृहे, स्वदोषात्-स्वसमुत्थक्लेश-मान्द्यप्रमादलक्षणदोषात्, क्षुधा-तृषाभ्यां प्रसिद्धाभ्यां म्रियते-प्राणत्यागं करोतीत्यर्थः, अत्र तपो-जपादीनां दार्टान्तिकता खाद्य-पेयानां दृष्टान्तता, मोक्षलक्षणफलाभावस्य दार्टान्तिकता क्षुधातृषाभ्यां मरणस्य दृष्टान्तिता, स्वसमुद्भूतदुर्विकल्पस्य दान्तिकता आत्मसमुत्थक्लेशमान्द्य-प्रमादादिदोषस्य दृष्टान्तता इति दृष्टान्तदान्तिकयोजना ।।९.१२ ।। रत्न.-तपो-जपाद्या इति., व्याख्या-तपो-जपाद्याः-तपो-जपप्रभृतयो धर्माः स्वफलाय न स्युः-न भवेयुः, आद्यशब्देन ध्यानादिग्रहणम्, तेषां फलं परमार्थतो मोक्षः, तस्मै न भवेयुरित्यर्थः, कस्य ? - आत्मनः, कीदृशस्य ? - हतं-पीडितं चेतो यस्य स तस्य, कैः ? - दुर्विकल्पैः, अत्रार्थे दृष्टान्तमाह-तदिति दृष्टान्तोपन्यासे निष्पुण्यको जीवः खाद्य-पेयैः भक्ष्यपानैः-घृतपूर-दुग्धादिभिर्गेहेगृहे सुष्ठु भृते सत्यपि स्वदोषात्-स्वस्य कार्पण्य-मान्द्यादिदोषतः क्षुधा-तृषाभ्यां म्रियते-मरणं प्राप्नोति, तेन तपो-जपादिषु धर्मेषु सत्स्वपि प्रेत्य-परभवे दुर्विकल्पहतचेता जनो दुःखी स्यादित्यन्वयः ।।९.१२ ।। [२३४] अकृच्छ्रसाध्यं मनसो वशीकृतात्, परं च पुण्यं न तु यस्य तद्वशम् । स वञ्चितः पुण्यचयैस्तदुद्भवः, फलैश्च ही ही हतका करोतु किम् ? ||९.१३।। धनवि.-अथ निगृहीतमनसः पुंसः सुखसाध्या पुण्यफलप्राप्तिर्भवति, अनिगृहीतमनसः पुंसश्च पुण्यफलवञ्चना भवतीति दर्शयन्नुपदिशति - १. ०न्तफलमा० मु. । २. जीवो मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy