________________
श्रीअध्यात्मकल्पद्रुमे
नपुंसकलिङ्गता, यद्-यस्मात् कुविकल्पजालैः- आर्त्तरौद्रध्यानसमूहैः करणभूतैर्दुर्गतौनरकादिगतौ त्वं मां क्षिपसि, बलात्कारेण नयसीत्यर्थः, अथ दुर्गतिक्षेपणकारणं स्वयमेवोट्ङ्क्य स्वयमेव निरस्यति जानासीत्यादिनोत्तरार्द्धेन जानासि त्वं यद्येवं मनुषे, एवमिति किम् ? - इत्याह-अयम् आत्मा मामपास्य- दूरीकृत्य शिवे - मोक्षे गन्ताऽस्ति-याताऽस्ति, सिद्धावस्थायामात्मनोऽमनस्कत्वस्य सिद्धान्ते भणनात्, तत्-तदा हीति निश्चितं तव मनसो वासपदं स्थितिस्थानम् असङ्ख्याताः प्राणिनः, किमिति काकूक्त्या प्रश्ने न सन्ति ?, अपि त्वसङ्ख्याताः सन्तीत्यर्थः, असङ्ख्यातानां पञ्चेन्द्रियगर्भजनरतिरश्चां नारकिणां देवानां च मनोवासस्थानानां विद्यमानत्वात् ।।९.१०।।
१५०
हे मनोरिपो ! तव
-
रत्न. - हे चित्तवैरि ! इति व्याख्या. हे चित्तवैरि ! मया किमिति प्रश्ने नु इत्यनुशये, अपराद्धम् ? अपराधः कृतः, हे चित्तवैरि' इत्यत्र चित्तविशेषणत्वान्नपुंसकत्वमन्यथा पुंस्त्वे वैरिन्निति भवति, यद्यतो हेतोर्मां प्रति दुर्गतौ क्षिपसि, कैः ? - कुविकल्पानां जालानि - समूहास्तैर्हेतुभिः, यद्-यस्मात् कारणात् त्वं जानासि किं जानासीत्याह- मां- मनः प्रत्यक्षं जीवः अपास्य-त्यक्त्वा शिवे-मुक्तौ गन्ताऽस्ति तत् - तर्हि तव मनसो वासाय - वसनाय पदं-स्थानं असङ्ख्या-सङ्ख्यातीताः किमिति प्रश्ने, न सन्ति ? अपि तु सन्त्येव । यदा तदा काले मनस्विनोऽसङ्ख्याताः स्युरेवेतिभावः, ततोऽहमेकस्त्वामपास्य शिवे गमिष्यामि तदा का तव हानिर्जातेति ।।९.१७ ।।
·
[२३२] पूतिश्रुतिश्वेव रतेर्विदूरे,
·
-
कुष्ठीव संपत्सु दृशामनर्हः ।
श्वपाकवत् सद्गतिमन्दिरेषु, नार्हेत् प्रवेशं कुमनोहतोऽङ्गी ।।९.११ ।।
धनवि . - अथानिगृहीतमनसः सद्गत्ययोग्यत्वं दृष्टान्तत्रयेण दर्शयन्नुपदिशति'पूतिश्रुति' इति, कुमनोहतो - दुष्टमनसा पराभूतः, अङ्गी - प्राणी पूती- परिपाकतः कुथितगन्धौ कृमिजालाकुलत्वाद्युपलक्षणमेतत्, श्रुती- कर्णौ यस्य स तथा स