________________
१४९
चित्तदमनद्वारम् कायव्यापारयोरपि दुष्टत्वभवनात्; तत्-तस्मात्, त्रिभिः-त्रिसङ्ख्याकैः, रिपुभि:वैरिभिर्वाक्-काय-मनोलक्षणैर्हतो-हननविषयीकृतः पदे पदे-स्थाने स्थाने दुर्विपदांदुष्टापदां पदीभवन्-आस्पदीभवन् भवल्लक्षणो जन इति गम्यं, किं करोतु ? - किं साधयत्विति काकूक्त्याऽन्वयः; भावार्थस्तु अकृते मनोनिग्रहे वाक्-तनू दुष्टे भवतः, कृते च मनोनिग्रहे वाक्-तनू मोक्षसाधके भवत इति काव्यभावमवधार्य मनोनिग्रहं पूर्वमेव कुरु, येन वाक्-तनू दुष्टे न भवत इति ।।९.१६ ।।
रत्न.-सुदुर्लभम् इति. व्याख्या-हे आत्मन् ! ते-तव अदः-एतन्मनो-हृदयं रिपवति-रिपुवदाचरति, यतः किंलक्षणं ? - सुदुर्जयं-अतिशयेन दुर्जेतव्यम्, अत एव रिपवतीत्यर्थः, च पुनः स्वयं रिपुवदाचरद् वाक्-तनू प्रति वचन-देहौ प्रति रिपूकरोति, कथमेवं ? - निश्चयेन मनो दृष्टं सद्वाक्-कायावपि दुष्टौ करोत्येवेत्यर्थः, तत्-तस्मात् त्रिभी-रिपुभिर्भवान् हतो-मारितः सन् किं करोतु ? - किं बलं करोत्वित्यर्थः, अपि तु न किमपि, यतो भवान् किं भवन् ? - पदीभवन्, स्थानीभवन् कासा ? - दुः-दुष्टा या, विपदः-आपदः, तासां, कस्मिन ? - पदे पदे स्थाने स्थान, अन्योपि पुमान् त्रिभिर्वेरिभिर्हतः सन्नतीव निर्बलो किं बलं करोत्वितिभावः ।।९.९।। [२३१] रे चित्तवैरि ! तव किं नु मयाऽपराद्धं ?,
यदुर्गतौ क्षिपसि मां कुविकल्पजालैः । जानासि मामयमपास्य शिवेऽस्ति गन्ता,
तत् किं न सन्ति तव वासपदं ह्यसङ्ख्याः ? ||९.१०।। धनवि.-अथानन्तरोक्तमेव शत्रुत्वं मनसः समर्थयन्नाह - 'रे चित्त' ! इति, रे इति तिरस्कारेण संबोधनं, रे चित्त ! - रे मनः रे वैरि ! - रे रिपा! नु वितर्के मया आत्मना, तव मनसः किं-किंनाम वस्तु, अपराद्धम् अपराधविषयीकृतं विनाशितमितियावद्, अत्र वैरिशब्दस्य मनोविशेषणत्वेन
१. अपरोपि - मु० ।
C-11