________________
चित्तदमनद्वारम्
१४३ _ 'सुखाय' इति, जन्तोः-प्राणिनः सुखाय च पुनदुःखाय देवा-इन्द्र-चन्द्रादयो नैव भवन्ति, च पुनः कालोऽपि-सुषम-दुष्षमादिः कृतयुगादिर्वा सुखाय दुःखाय न भवति, नापि सुहृदो-मित्राणि, अथवा अरयः-शत्रवः सुखाय दुःखाय भवन्ति, परं-के वलं मानसमेव-अन्तःकरणमेव जन्तोः संसारचक्रे-भवसमूह, अथवोत्सर्पिण्यवसर्पिणीलक्षणद्वादशारे संसारचक्रे भ्रमणं-पुनः पुनः पर्यटनं तस्य एक:-अद्वितीयो हेतु:-कारणं भवेत, अत्र हेतुशब्दोऽजहललिङ्गः । भावार्थस्तु आराधिता देवाः सुखाय न भवन्ति, विराधिताश्च देवा दुःखाय न भवन्ति, च पुनः सुषमकालः सुखाय न भवति, दुष्षमकालश्च दुःखाय न भवति, च पुनः सुहृदः सुखाय न भवन्ति, वैरिणश्च दुःखाय न भवन्ति, परं-केवलं मानसमेव वशीकृतं सुखाय भवति, अवशीकृतं च दुःखाय भवतीति ।।९.४।।
रत्न.-सुखाय दुःखाय च इति. व्याख्या-हे आत्मन् ! देवाः सुखायसुखहेतवे दुःखाय-दुःखहेतवे च न भवन्ति, तथा कालः-प्रावृडादिरपि न, सुहृदो-मित्राण्यपि न वा, पुनररयोऽपि न सुखाय न दुःखाय चेति यथार्ह योजनीयम्, परं-केवलमेकं जन्तोः-जीवस्य मानसं-मन एव सुखाय दुःखाय च भवेद् । यतः किंलक्षणं ? - संसारचक्रे-संसारसमूहे अथवोत्सर्पिण्यवसर्पिणीलक्षणे द्वादशारसंसारचक्रे, भ्रमणं तस्यैक:-अद्वितीयो हेतु:-कारणम्, अत्र एवकारोऽन्ययोगव्यवच्छेदार्थः, इदं वचनं संज्ञिन आश्रित्य ज्ञेयं, असंज्ञिनां मनसः अभावेऽप्यनन्तसंसारचक्रभ्रमो दृश्यते तेनेत्यर्थः ।।९.११।।
[२२०] वशं मनो यस्य समाहितं स्यात्,
किं तस्य कार्यं नियमैर्यमैश्च ? | हतं मनो यस्य च दुर्विकल्पैः, किं तस्य कार्यं नियमैर्यमैश्च ? ||९.५।।
धनवि.-अथ मनोनिग्रहमन्तरेण यम-नियमादीनां वैयर्थ्यं दर्शयन् मनोनिग्रहमेवोपदिशति -