________________
१४२
श्री अध्यात्मकल्पद्रु
शोभनान् विकल्पान् भज- श्रय, तथा मैत्री कृतार्थय - सफलय, यतो हेतोरहं नरकाद् बिभेमि सभयो भवामि इति ।। ९.९ । ।
[२१८] स्वर्गाऽपवर्गौ नरकं तथाऽन्तर् मुहूर्त्तमात्रेण वशाऽवशं यत् । ददाति जन्तोः सततं प्रयत्नाद् वशं तदन्तःकरणं कुरुष्व ।।९.३ ।।
धनवि: -अथ मनसः सामर्थ्यं दर्शयन् तद्वशीकार्यमित्युपदिशति
‘स्वर्गापवर्गौ' इति–यन्मनः, अन्तर्मुहूर्तमात्रेण - द्विघटिकाप्रमाणकालमात्रेण, वशं च-आयत्तम् अवशं च - अनायत्तं सत् जन्तोः प्राणिनः स्वर्गाऽपवर्गौ प्रसिद्धौ तथा नरकं प्रसिद्धं ददाति दत्ते, वशं मनः स्वर्गाऽपवर्गौ ददाति, अवशं च नरकं ददातीत्यर्थः, तदन्तःकरणं-तन्मनः सततं - निरन्तरं प्रयत्नाद्उद्यमतो वशं-स्वायत्तं कुरुष्व - विधेहीत्यर्थः । । ९.३ ।।
रत्न. - अथ कियद्भिः काव्यैरात्मानं मनोवशीकरणमुपदिशन्नाह
स्वर्गापवर्गौ इति व्याख्या - हे आत्मन् ! यदन्तःकरणं - मनो वशं च तदवशं च वशावशं सत्, जन्तो:- जीवस्य स्वर्गश्च अपवर्गश्च स्वर्गाऽपवगौ - त्रिदिव-मोक्षौ अन्तर्मुहूर्तमात्रेण जीर्णश्रेष्ठि- प्रसन्नचन्द्रराजर्ण्योरिव ददाति, वशं सदिति ज्ञेयं, तथा - अन्तर्मुहूर्त्तमात्रेण नरकं तन्दुलमत्स्यस्येव ददाति, अवशं सदिति ज्ञेयं, तत्-तस्माद्धेतोर्हे आत्मन् ! तदन्तकरणं वशम् - आयत्तं कुरुष्वेति । । ९.१० । ।
[२१९] सुखाय दुःखाय च नैव देवा,
न चापि कालः सुहृदोऽरयो वा । भवेत् परं मानसमेव जन्तोः, संसारचक्रभ्रमणैकहेतुः ।।९.४।।
—
धनवि . - अथ मनस एवैहिक-पारलौकिकसुखकारणतां दर्शयन्नुपदिशति -
D