SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ९. चित्तदमनाधिकारस [२३५] कुकर्मजालैः कुविकल्पसूत्रजैर्- . निबध्य गाढं नरकाग्निभिश्चिरम् । विसारवत् पक्ष्यति जीव ! हे !, मन:कैवर्त्तकस्त्वामिति माऽस्य विश्वसीः ।।९.१।। धनवि.-ननु मनोनिग्रहं विनाऽनन्तरोक्तेन शास्त्रद्वारेण किं स्याद् इत्याशङ्कायां मनोनिग्रहद्वारमुपदिशन्नाह - अथ मनः, अथ मन इति, अथ शास्त्रद्वारकथनानन्तरं मनः-चित्तं निग्रहविषयीकार्यमिति मनोनिग्रहद्वारमुपदिश्यते इति । तत्र प्रथमं मनसो धीवरसादृश्यं दर्शयन्नुपदिशति - 'कुकर्मजालैः' इति-हे जीव ! आत्मन् ! मनकैवर्तकः-चित्तधीवरः कुविकल्पसूत्रजैः-कुचिन्तन-रूपतन्तुजन्यैः, कुकर्मजालैः-ज्ञानावरणाद्यष्टविधदुष्कर्मलक्षणमत्स्यजालैर्गाढम्-अत्यर्थं, निबध्य-नियन्त्र्य, विसारवद्-मत्स्यमिव त्वां, नरकाग्निभिःनरकलक्षणवैश्वानरैः, चकारादन्यैर्दुःखाग्निभिश्चिरं-चिरकालं पक्ष्यति-पचनक्रियाविषयं करिष्यति, इति अनन्तराद्धेतोरस्य-मनसो मा विश्वसी-विश्वासं मा कार्षीरित्यर्थः ।।९.१।। रत्न:-अथात्मनो 'मनोदुर्जनेऽस्य विश्वासं निषेधयति - कुकर्मजालैः कुविकल्पसूत्रजै इति. व्याख्या-हे जीव ! मन एव कैवर्त्तकोधीवरस्त्वां प्रति विसारं-मत्स्यमिव विसारवत् पक्ष्यति-पाकविषयीकरिष्यति, कै? - नरका-नरकावासा अतीवोष्णत्वादग्नय इवाग्नयः, तैः कथं ? - चिरंचिरकालं, किं कृत्वा ? - निबध्य-बद्ध्वा, कथं ? - गाढम्-अत्यर्थं, कैः ? - कुकर्माण्येव जालानि-मत्स्यबन्धनोपकरणानि तैः, किंलक्षणैः ? - कुविकल्पा एव सूत्राणि-तन्तवः, तेभ्यो जायन्त इति कुविकल्पसूत्रजानि तैः, धीवरोऽपि १. मनः-कैवर्ती - मस्त्यानिव त्वां बद्ध्वा पक्ता इति न विश्वासार्ह इति दर्शयति
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy