SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२३ अधीतिनोऽर्चादिकृते जिनागम, इति, व्याख्या-अर्चादीनां पूजादीनां कृतेप्रयोजनाय, अधीतिनः-अध्ययनवतः साधो - र्जिनागमो मुधा, जिनागम इत्युक्तेऽपि कारणे कार्योपचाराज्जिनागमस्याधीतिर्वृथेति । यतः किंभूतस्य ? - प्रमादवतोनिद्रादिप्रमादवतः, अत एव किंभूतस्य ? अतिशयेन दुर्गतौ पततीति दुर्गतिपापतिस्तस्य, यङ्लुपि प्रयोगोऽयं, एतदेव निदर्शनविषयीकुरुते - शलभस्यपतङ्गस्य चक्षुषी-नेत्रे कस्मै गुणाय स्याताम् ?, अपि तु न कस्मैचिद् गुणाय, प्रत्युताहितायेति । यतः किंलक्षणस्य ? - ज्योतिभिरर्थाद् दीपसम्बन्धिभिर्विमूढस्यविमोहं प्राप्तस्य, अत एव दीपे पततीत्येवंशीलो दीपपाती तस्य, अत्रार्चादिकृते अधीतिनो ज्योतिर्विमूढस्य शलभस्योपमानं दुर्गतिपतनस्य च दीपपातोपमानमित्युपमानोपमेयभावो योजनीयः ।। ८.१.३ ।। शास्त्रगुणद्वारम् [१९८] मोदन्ते बहुतर्कतर्कणचणाः केचिज्जयाद् वादिनां, काव्यैः केचन कल्पितार्थघटनैस् तुष्टाः कविख्यातितः । ज्योति-र्नाटक-नीति-लक्षण-धनुर्वेदाऽऽदिशास्त्रैः परे, ब्रूमः प्रेत्यहिते तु कर्मणि जडान् कुक्षिंभरीनेव तान् ।।८.१.४।। धनवि . - अथ धर्मशास्त्राध्ययनातिरिक्तं शास्त्राध्ययनं परलोकहितं न भवतीत्युपदिशति 'मोदन्ते' इति–ये केचिन्नरा वादिनां जयात्-परवादिविजयात्, मोदन्ते-हृष्यन्ति, कथंभूता ? - बहवो - भूयांसश्च ते तर्काश्च - अनिष्टप्रसञ्जनरूपाः प्रमाणादिपदार्थरूपा वा, तेषां तर्कणं-विचारणं, तेन प्रसिद्धा बहुतर्कतर्कणचणाः-'तेन वित्ते चञ्चुचणौ’इति [सि.हे.७-१-१७५] तद्धितसूत्रेण चणप्रत्यये साधुः च पुनर्ये केचन कल्पितार्थघटनैः काव्यैः करणभूतैः, कविख्यातितो- नवनवकाव्यकर्तृत्वप्रसिद्धितस्, तुष्टाः-सन्तोषवन्तः सन्तो मोदन्ते च पुनर्ज्योतिश्च - ज्योतिःशास्त्राणि बृहज्जातकादीनि, नाटकानि च-नाटक-शास्त्राणि भरत - पिंगलादीनि, नीतयश्च - नीतिशास्त्राणि चाणाक्यपञ्चाख्यानादीनि, लक्षणानि च - लक्षणशास्त्राणि पाणिनीयादिव्याकरणानि सामुद्रिकशास्त्राणि वा, धनुर्वेदाश्च - धनुर्वेदशास्त्राणि द्रोणाचार्यप्रभृतिकलाचार्य
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy