________________
१०४
श्रीअध्यात्मकल्पद्रुमे मानं धत्से तत्तदा भवः-संसारः, तस्यातिः-पीडा तां कुर्वन्तीति भवार्तिकृन्ति सांसारिकदुःखदायकत्वात्, तानि च तानि कर्माणि च-ज्ञानावरणादीनि, तानि हरन्तिअपनयन्तीति भवार्तिकृत्कर्महृन्ति तानि च तानि परीषहोपसर्गकरणादिना कर्मक्षयलक्षणोपकारकत्वेन मित्राणि च-सुहृदो भवार्तिकृत्कर्महृन्मित्राणि, तान्येव बहिर्दिषदोबाह्यवैरिणो भवार्तिकृत्कर्महृन्मित्र-बहिर्दिषन्तः, तेषु भवार्तिकृत्कर्म-हृन्मित्रबहिर्द्विषत्सु क्रोधं मानं वा, घेहीति; भावार्थस्तु इह लोके बाह्यवैरिणः खलु प्राक्कृतकर्मनिर्जराकारणत्वेन परलोकेऽनन्तसुखप्राप्ति-साहाय्यकारकत्वादुपकारिणो भवन्ति यथा गजसुकुमाला-ऽवन्तिसुकुमालादीनां सोमिल-शृगाल्यादय इति । ७.१०।।
रत्न.-अथ तव यदि कोपस्तदा वैरिष्वेव युक्त इत्यात्मानमुपदिशति -
धत्से कृतिन् इति, व्याख्या-हे कृतिन् ! - हे पण्डित ! त्वं यदि अपकारकेषु-तवापकारिषु वैरष्वित्यर्थः, क्रोधं पाठान्तरेण वा मानं धत्से-वहसि ततः-तहयरीणां षट्के एव-क्रोध-मान-माय-लोभ-राग-द्वेषलक्षणे एव धेहि धत्स्ववहस्व, एवकारः अन्ययोग-व्यवच्छेदार्थः, तेन नान्येषु, अथेति पक्षान्तरे, यदि त्वमुपकारिष्वपि-उपकारकेषु मित्रेष्वित्यर्थः क्रोधं मानं वा धत्से तत-तर्हि भवेसंसारे अर्ति-पीडां कुर्वन्तीति भवार्तिकृन्ति, एवंविधानि यानि कर्माणि तानि प्रहरन्तीति भवार्तिकृत्कर्महृन्ति, एवंविधानि मित्राणि तान्येव बहिर्द्विषन्तोबाह्यवैरिणस्तेषु धेहि । अथ भावार्थ उच्यते-गजसुकुमालादीनां बाह्यद्विषन्तः सोमिलादयस्तत्त्वतो मित्राणि सन्ति, कर्मक्षये साहाय्यदानात्, ततः सोमिलादय उपकारिणः, तेन यधुपकारिषु क्रोधः कर्त्तव्यस्तदा सोमिलादिषु तत्त्वतो मित्रेषु बाह्यतो वैरिषु कर्त्तव्यः, अथापकारिषु कर्त्तव्यस्तदाऽन्तरिषु क्रोधादिषु कर्त्तव्य इत्येवं ज्ञात्वा गजसुकुमालादिभिः सोमिलादिभ्यो न कुपितमिति |७.१०।। [१६६] अधीत्यनुष्ठान-तप-शमाद्यान्,
धर्मान् विचित्रान् विदधत् समायान् । न लप्स्यसे तत्फलमात्मदेहक्लेशाधिकं तांश्च भवान्तरेषु । ७.११।।