________________
गाथा-४-७
४६
४-पूजाविधि-पञ्चाशकम् [स्तुतिश्चैकश्लोकप्रमाणा, स्तोत्रं तु बहुश्लोकमानम् - अटी.] तत्कृतगौरवविशेषयुक्त्या, तेभ्यः बहुमानविशेषसम्भवात् जिनपूजा भवति कर्तव्या ॥३॥
एनामेव गाथां लेशतः प्रतिपदं व्याचष्टे - कालम्मि कीरमाणं, किसिकम्मं बहुफलं जहा होइ। इय सव्व च्चिय किरिया, नियनियकालम्मि विण्णेया ॥१४८॥ ४/४
काले स्वोचिते प्रस्तावे, क्रियमाणं कृषिकर्म लोकप्रसिद्धं बहुफलं बहुशस्यं यथा भवति यथा सम्पद्यते इत्येवं सर्वैव क्रिया चेष्टा निज निजकाले यथा स्वसमये विज्ञेया फलवती ॥४॥
सो पुण इह विण्णेओ, संझाओ तिण्णि ताव ओहेण । वित्तिकिरियाऽविरुद्धो, अहवा जो जस्स जावइओ ॥१४९॥ ४/५
स कालः पुनरिह पूजायां विज्ञेयो ज्ञातव्यः । सन्ध्यातित्रस्तावदोघेन सामान्येन सन्ध्यात्रयोपलक्षितत्वात् वृत्तिर्वर्तनोपायः शिल्पवाणिज्यादि तक्रियाया अविरुद्धोऽबाधको अथवा यो यस्य पूजाकारिणः पुरुषस्य यावान् यत्परिणामः ॥५॥
ननु किं वृत्तिक्रियाऽविरुद्धः पूजायाः कालः प्रशस्यत इत्याह - पुरिसेणं बुद्धिमया, सुहवुढि भावओ गणंतेणं । जत्तेणं होयव्वं, सुहाणुबंधप्पहाणेण ॥१५०॥ ४/६
पुरुषेण बुद्धिमता बुद्धिसम्पन्नेन, शुभवृद्धि पुण्योपचयं भावतः परमार्थतः गणयता सतात्मनः कलयता, यत्नेन सर्वादरेण भवितव्यम्, शुभानुबन्धप्रधानेन कुशलानुबन्धपरेण यथा पुण्यसन्तानः प्रादुर्भवति तथा यत्नो विधेयः स च वृत्तिक्रियाऽविरुद्धसमयः पूजासेवनेनेति भावः ॥६॥
व्यतिरेकदोषमाह - वित्तीवोच्छेयम्मि य, गिहिणो सीयंति सव्वकिरियाओ । निरवेक्खस्स उ जुत्तो, संपुण्णो संजमो चेव ॥१५१॥ ४/७
वृत्तिव्यवच्छेदे च जीवनोपायव्यवच्छित्तौ च गृहिणो गृहस्थस्य सीदन्ति न प्रवर्तन्ते, सर्वक्रिया धर्मलोकव्यवहारगताः, निरपेक्षस्य तु सर्वक्रियास्विति गम्यते । युक्त उपपन्नः सङ्गतः । सम्पूर्णः संयम एव साधुधर्म एव साधुवदन्यथा सर्वथा निरपेक्षत्वासिद्धेः ॥७॥