________________
परिशिष्टम्-६
२९२ दुष्करेणापि दण्डेन हित्वा शारीरनिग्रहम् । इति ब्रुवाणं तं यक्षः साकूतः प्रोक्तवानिदम् ।।२२॥ किं देहनिग्रहादन्यं सोढुं शक्नोषि निग्रहम् । बाढं शक्तोऽस्मि तेनोक्तं ततो यक्षो व्यचिन्तयत् ॥२३।। दुष्करस्यापि कार्यस्य करणेऽस्य मनः क्षमम् । ज्ञात्वा चैवं नृपस्तेन विज्ञप्तोऽसौ यथोदितम् ॥२४॥ राज्ञाऽप्युक्तं यथा तेन पात्री तैलातिपूरिता । भ्रमयित्वा पुरे कृत्स्ने आनेतव्याऽस्मदन्तिके ॥२५॥ यद्येकोऽपि ततो बिन्दुः पतेद भूम्यां ततो वधः । कार्यस्तस्य ततो यक्षो नृपादेशं न्यवेदयत् ॥२६॥ श्रेष्ठिपुत्रोऽपि राज्ञोक्तमभ्युपागच्छदादृतः । कृच्छ्राण्यपि हि कुर्वन्ति जीवितव्याय देहिनः ॥२७॥ ततस्तस्य नृपस्तैलपूर्णपात्रीप्रधारिणः । निर्गच्छतो निजाद् गेहादुत्खातासिभटै शम्॥२८॥ उत्त्रासं कारयामास प्रेक्षाश्चातिमनोहराः । प्रनटन्नाटिकोपेताः कामहासादिदीपिकाः ॥२९॥ ततोऽसौ मानसक्षोभसंपादनपटीयसि । सत्यपि प्रौढविघ्नौघे जीविताशावशीकृतः ॥३०॥ अप्रमादविशेषेण तैलपात्रीं वणिक्सुतः । अस्रस्तबिन्दुकां राज्ञो निनाय चरणान्तिके ॥३१॥ ततश्चैवं महाकष्टे कृते तेन नराधिपः । प्रेरयामास तं श्रेष्ठिसूनुं सूनृतभाषया ॥३२॥ त्वयैकमृत्युभीतेन यथेदृक्षाऽतिदुष्करा । सौम्याप्रमत्तताऽकारि तथाऽन्ये लघुकर्मकाः ॥३३॥ अनन्तमरणत्रस्तास्तां सेवन्ते विशेषतः । अशक्यपरिहारोऽतः प्रमाद इति ते वृथा ॥३४॥ युग्मम् हिंसा युक्तेति ते बुद्धिर्याऽसावपि न संगता । अन्यथा त्वं कथं भीतो वधात् कष्टं प्रपन्नवान् ? ॥३५॥ श्रुत्वैवं स वणिक्सूनुरनुशास्ति महीपतेः । प्रपेदे भावतो जैनं शासनं पापनाशनम् ॥३६॥ इति ॥१४/२९॥
(९) राधावेधदृष्टान्तौ आसीदिन्द्रपुरं नाम नगरं गुरुकं गुणैः । तत्राभवच्छ्यिामिन्द्र इन्द्रदत्तो महीपतिः ॥१॥ प्रीतिपात्रकलत्राणां तस्य द्वाविंशतिः सुताः । बभूवुर्भूमिपालस्य प्राणेभ्योऽप्यतिवल्लभाः ॥२॥ अन्या भार्याऽभवत् तस्य भूपस्यामात्यपुत्रिका । सा च तेन परं दृष्टा पाणिग्राहं प्रकुर्वता ॥३॥ अथान्यदा कदाचित् सा ऋतुस्नाताऽवलोकिता। राज्ञा पृष्टाश्च पार्श्वस्था यथैषा कस्य? का च भोः? ॥४॥ त ऊचुर्देव ! देवी ते ततो राजा तया सह । रात्रिमेकामुवासाथ तस्या गर्भोऽभवत् तदा ॥५॥ सा च पूर्वममात्येन भणिताऽऽसीद्यदा तव । गर्भो भूतो भवेद्भद्रे ! तदा त्वं मे निवेदयेः ॥६॥ ततः सा गर्भसंभूति राजसंवासवासरम् । मुहूर्तं राजजल्पं च पितुः सर्वं न्यवेदयत् ॥७॥ सत्यंकाराय तत्सर्वं व्यलिखत् सोऽपि पत्रके । सम्यक् तां पालयामास काले चाजनि दारकः ॥८॥ तद्दिने दासरूपाणि जजुश्चत्वारि तद्गृहे। अग्निकः पर्वतकश्च बहुली सागरस्तथा ॥९॥ सुरेन्द्रदत्त इत्येषा राजसूनोः कृताऽभिधा । कलासूरेरसौ पार्वे कलाः काले गृहीतवान् ॥१०॥ गृह्णतश्च कलास्तस्य चक्रिरे तान्युपद्रवान् । न चासौ भाविभद्रत्वानृपसूनुर्व्यजीगणत् ॥११॥ ते च द्वाविंशतिः पुत्रा ग्राह्यमाणाः कलाः किल । निघ्नन्ति स्म कलाचार्यं गालीस्तस्य तथा ददुः ॥१२॥ सूरिणा