________________
॥ सप्तदशं स्थिताऽस्थितकल्पं-पञ्चाशकम् ॥
पूर्वोक्तप्रायश्चित्तविशुद्धसाधुधर्माणां स्थितादिकल्पप्रतिपादनायाह - नमिऊण महावीरं, ठियादिकप्पं समासओ वोच्छं । पुरिमेयरमज्झिमजिणविभागतो वयणनीतीए ॥७९५॥ १७/१
नत्वा महावीरमागमप्रसिद्धदेवकृतनामानं स्थितादिकल्पं स्थितास्थितकल्पं दशस्थानविषयं समासतः सङ्केपेण, वक्ष्येऽभिधास्ये, पूर्वेतरमध्यमजिनविभागतः पूर्वपश्चिमजिनसाधूनां स्थितकल्पः, मध्यमर्तीर्थकृत्-द्वाविंशतेरस्थितकल्प इति विभागेन, वचननीत्यागमनीत्या ॥१॥
तत्र पूर्वकल्प इति प्रतिपादनायाह - दसहोहओ उ कप्पो, एसो उ पुरिमेयराण ठियकप्पो । सययासेवणभावा, ठियकप्पो णिच्चमज्जाया ॥७९६॥ १७/२
दशधा दशप्रकारः ओघतस्तु सामान्येन कल्पो व्यवस्थारूपः एष दशविधः पूर्वोत्तरजिनसाधूना स्थितकल्प उच्यते । सततासेवनभावात् निरन्तराचरणसद्भावात्, स्थित-कल्पो नित्यमर्यादा न तैरागमोक्तपुष्टालम्बनमन्तरेणोल्लङ्घनीय इति नित्यमर्यादारूपोऽयम्, कारणस्तु तेऽपि बहुगुणं चेष्टन्ते ॥२॥
कस्मादयमेवमिष्यत इत्याह - ततिओसहकप्पोऽयं, जम्हा एगंततो उ अविरुद्धो । सययं पि कज्जमाणो, आणाओ चेव एतेसिं ॥७९७॥ १७/३
तृतीयौषधकल्पोऽयं तृतीयौषधतुल्योऽयम्, यस्मात् एकान्ततस्तु एकान्तेनैव अविरुद्धः परिणामसुन्दरत्वेन, सततमप्यनवरतमपि, क्रियमाणो विधीयमानः, आज्ञात एवागमादेव, एतेषां पूर्वेतरसाधूनाम्, ते हि तथाकुर्वन्त कल्याणभाज एव भवन्ति ॥३॥
तृतीयौषधप्रतिपादनायाह - वाहिमवणेइ भावे, कुणइ अभावे तयं तु पढमं ति । बितियमवणेति न कुणति, तइयं तु रसायणं होति ॥७९८॥ १७/४