________________
१६-प्रायश्चित्तविधि-पञ्चाशकम् गाथा-४८-५० विहितानुष्ठानमेव शास्त्रोक्तानुष्ठानमेव, प्रायश्चित्तं नान्यत्, तत् प्रायश्चित्तम्, अन्यथा विहितानुष्ठानत्वपरित्यागेन, न भवेत् न सम्भवेत् । समये सिद्धान्ते अभिधानात् हेतोः, इष्टार्थप्रसाधकं इष्टफलजनकम्, नियमात् नियमेन, अथवा पृथग् वाक्यम्-समये अभिधानात् प्रतिपादनात्, तेन विधीयमानत्वादित्यर्थः । इष्टार्थप्रसाधकं नियमा तद्भवतीति । अत्रापि पक्षे विहितानुष्ठानरूपमेव प्रायश्चित्तम् ॥४७॥
साम्प्रतं सकलस्यैव साध्वनुष्ठानस्य विवक्षायाः प्रायश्चितत्वमुपपादयन्नाह - सव्वा वि य पव्वज्जा, पायच्छित्तं भवंतरकडाणं । पावाणं कम्माणं, ता एत्थं नत्थि दोसो त्ति ॥७९२॥ १६/४८
सर्वापि च निरवशेषाणि च, धर्मव्यापाराङ्गीकरणेन, प्रव्रज्या व्रताभ्युपगमरूपा, प्रायश्चित्तं विशुद्धिहेतुः, भवान्तरकृतान जन्मान्तरविहितानां पापानामशुभानां कर्मणां ज्ञानावरणादीनाम्, तत्तस्माद् अत्र विहितानुष्ठानस्य प्रायश्चित्तत्वे नास्ति दोष इति न कश्चन दोषः ॥४८॥
किं पुनः सम्यक् चरितस्य प्रायश्चित्तस्य लिङ्गमित्याह - चिण्णस्स णवरि लिंगं, इमस्स पाएण अकरणं तस्स । दोसस्स तहा अण्णे, नियमं परिसुद्धए बिंति ॥७९३॥ १६/४९
चीर्णस्य चरितस्य सम्यक्सेवितस्य, नवरं केवलं लिङ्गं लक्षणम्, अस्य प्रायश्चित्तस्य, प्रायेण बाहुल्येन, अकरणमनासेवनं, तस्य दोषस्य प्रायश्चित्तार्हस्य, तथाऽन्ये सूक्ष्मबुद्धयो, नियममकरणनियमं ग्रन्थिभेदवत्, तदबन्धरूपमासंसारं तद्दोषपरिहारस्वभावं, [परिशुद्धये] परिहारशुद्धये दोषविशुद्धये ब्रुवते प्रतिपादयन्ते ॥४९॥
एतदप्यन्यसूक्ष्मबुद्धिमतं सङ्गतमेवेत्याह - निच्छयणएण संजमठाणापातंमि जुज्झति इमं पि । तह चेव पयट्टाणं, भवविरहपराण साहूणं ॥७९४॥ १६/५०
निश्चयनयेन निश्चयनयमतेन, संयमस्थानापाते देवगतावपि, तथाविधाऽव्यक्तभावसामायिकाऽप्रतिपाते युज्यते सुसङ्गत एव तदपि सूक्ष्मबुद्धिमतः तथा चैव भावितात्मतया प्रवृतानां प्रवृत्तिं विदधतां भवविरहपराणा संसारविरहप्रधानानां साधूनां यतीनां ते ह्यत्यन्तसाधुधर्मा भावितात्मनो देवादिगतिष्वपि वर्तमानाः स्वभावत एव सुन्दरं कुर्वन्ति, नेतरत् ॥५०॥
॥षोडशं पञ्चाशकं प्रायश्चित्तविधिप्रकरणं समाप्तम् ॥