________________
गाथा - २८-३०
१४-शीलाङ्गविधि-पञ्चाशकम्
सव्वत्थ णिरभिसंगो, आणामेत्तंमि सव्वहा जुत्तो । एगग्गमणो धणियं, तम्मि तहा मूढलक्खो य ॥ ६७२॥ १४/२८
तह तइलपत्तिधारगणातगतो राहवेहगगतो वा ।
एयं चएइ काउं, न उ अण्णो खुद्दसत्तोति ॥६७३ ॥ १४/२९
१८५
तत्तस्मात् संसारविरक्तो भवविरक्तः, अनन्तमरणादिरूपम्, आदिशब्दाज्जन्मजरारोगपरिग्रहः । एतं त, संसारं ज्ञात्वा अवगम्य एतद्वियुक्तं मरणादिवियुक्तं मोक्षं चापवर्गं च । गुरूपदेशेन गुरुवचनकलापेन ज्ञात्वा ॥२५॥
"
परमगुरोस्तीर्थकरस्य, अनघान् निर्दोषान्, आज्ञाया वचनरूपाया गुणान् प्रतिपाद्यान् तथैव दोषांश्च तत्प्रतिपाद्यानेव ज्ञात्वा, मोक्षार्थी मुक्त्यर्थी, प्रतिपाद्याभ्युपगम्य, प्रतिज्ञापूर्वकम्, भावेनान्त:करणेनेदं शीलं विशुद्धेन विशुद्धिभाजा विशुद्धपरिणामेनेत्यर्थः ॥२६॥
विहितानुष्ठानपरः शास्त्रविहितसेवनपरः शक्त्यनुरूपं यथाशक्ति, इतरदपि पूर्वप्रवृत्तमप्यागमानुष्ठानं सन्दधानो भावप्रतिपत्त्या घटयन् अन्यत्र विहितानुष्ठानाद् अनुपयोगादुपयोगाभावादन्यत्राध्यवसायमकुर्वन्नित्यर्थः । विहितानुष्ठानोपयोगादेव क्षपयन्निर्जरयन् कर्मदोषानपि कर्मकृतविकारान् रागादीन् ॥२७॥
सर्वत्र द्रव्यक्षेत्रादौ निरभिष्वङ्गोऽप्रतिबद्धः, आज्ञामात्रे भगवत्सम्बन्धिनि, सर्वथा सर्वैः प्रकारैः युक्त उद्युक्तः उत्साहवान्, एकाग्रमना अनन्यचित्तः, धनिकमत्यर्थं तस्मिन् शीले तथा तेन चित्रोपयोगभेदेन, अमूढलक्षश्चावन्ध्यध्येयश्च [अमूढः सुनिर्णयो, लक्षो बोधविशेषो यस्य सः अटी. ] ॥२८॥
तथा अभ्युच्चये तैलपात्रीधारकज्ञातगतोऽत्यन्ताप्रमत्तो, राधावेधकगतो वा तदेकदृष्टि च एतच्छीलं शक्नोति कर्तुं विधातुं न त्वन्यः पूर्वोक्तगुणविकलः । क्षुद्रसत्त्व इति कृपि (प)णसत्वः, प्रायोऽल्पाशय इति यावत् ॥ २९ ॥
तो चि निद्दिट्ठो, पुव्वायरिएहि भावसाहु त्ति ।
हंदि पमाणठियट्ठो, तं च पमाणं इमं होइ ॥ ६७४॥ १४/३०
अत एव पूर्वोक्तहेतुकलापादेव, निर्दिष्टः कथितः, पूर्वाचार्यैः पूर्वसूरिभि:, [भद्रबाहुस्वामि प्रभृतिभिः, अटी. ] भावसाधुरिति भावयतिः हन्त प्रमाणस्थितार्थः प्रमाणेन प्रतिज्ञादिपूर्वकसाधनवाक्येन स्थितः प्रतिष्ठितोऽर्थो अस्येति । तच्च प्रमाणमिद भवति साधनवाक्यम् ॥३०॥