________________
१८४
१४- शीलाङ्गविधि-पञ्चाशकम्
गाथा - २२-२७
तद्वदेव, नियमेन चरणवाश्चारित्रवान् यद्यस्मान्न जातु कदाचिद् आज्ञां विलङ्घयत्युल्लङ्घयति
॥२१॥
न य तज्जुत्तो अण्णं, न निवारइ जोग्गयं मुणेऊणं ।
एवं दोह वि चरणं, परिसुद्धं अण्णहा णेव ॥६६६॥ १४ / २२
न च नैव तद्युक्तश्चरणयुक्तः अन्यमगीतार्थं न निवास्यति न निवारयत्येव । योग्यतां दोषपरिहारौचित्यं मत्वा, एवमुक्तनीत्या द्वयोरपि गीतार्थागीतार्थयाश्चरणं चारित्रं परिशुद्धं निरवद्यम्, अन्यथोक्तप्रकारमन्तरेणैव [रेण नैव]न कथञ्चित् परिशुद्धमित्यर्थः ॥२२॥
विरतिभावाऽखण्डरूपत्वनिगमनायाह
ता एव विरतिभावो, संपुण्णो एत्थ होइ णायव्वो । नियमेणं अट्ठारससीलंगसहस्सरूवो उ ॥६६७ ॥ १४/२३
तत्तस्माद् एवमुक्तनीत्या, विरतिभावो विरतिपरिणामः, सम्पूर्णोऽखण्डः, अत्र व्यतिकरे भवति ज्ञातव्योऽवबोधव्यः, नियमेन अवधृतस्वरूपः अष्टादशशीलाङ्गसहस्ररूपस्तु अष्टादशशीलाङ्गसहस्रस्वरूप एव ॥ २३॥
ऊत्तं न कयाइ वि, इमाण संखं इमं तु अहिकिच्च ।
जं एयधरा सुत्ते, निद्दिट्ठा वंदणिज्जा उ ॥ ६६८ ॥ १४/२४
ऊनत्वं हीनत्वं न कदाचित् काले, एषां शीलाङ्गानां संख्यामियत्ताम् इमां तु प्रत्यक्षीकृताम् अधिकृत्याङ्गीकृत्य यद् यस्माद् एतद्धारा अष्टादशशीलाङ्गसहस्रधराः सूत्रे प्रतिक्रमणाध्ययने निर्दिष्टाः कथिताः, वन्दनीयास्तु वन्दनीया एव ॥२४॥
कः पुनरेतदखण्डं कर्तुं शक्त इत्याह
ता संसारविरत्तो, अनंतमरणादिरूवमेयं तु ।
गाउं एयविउत्तं, मोक्खं च गुरूवएसेणं ॥६६९॥ १४/२५ परमगुरुणो य अणहे, आणाए गुणे तहेव दोसे य । मोक्खट्ठी पडिवज्जिय, भावेण इमं विसुद्धेणं ॥६७०॥ १४/२६
विहिताणुट्ठाणपरो, सत्तऽणुरुवमितरं पि संधंतो । अण्णत्थ अणुवओगा, खवयंतो कम्मदोसे वि ॥६७१॥ १४/२७