________________
११- साधुधर्मविधि- पञ्चाशकम्
गाथा - ५-७
संसारपरिभ्रमणहेतुलोभो यत्र तत्तथा सम्परायं हेतु - फलभावेन चारित्रविशेषणम्, पदद्वयं नाम त्वेकमेव [सुहुमं च तह संपरायं च 'इत्यत्र तथाशब्दः आनन्तर्यार्थः, गाथाभङ्गभयाच्च व्यवहितोऽस्योपन्यासः, अनुस्वारश्चेहालाक्षणिकः अटी. ] ॥३॥
१४२
ततस्तदनन्तरं यथाख्यातं यथाख्यातं वाऽकषायम्, ख्यातं प्रथितं सर्वस्मिन् जीवलोके प्रत्यासन्नसर्वज्ञत्वात् । यच्चरित्वाऽऽसेव्य सुविहिताः सदनुष्ठानाः साधवो व्रजन्ति गच्छन्ति अनुत्तरं सर्वप्रधानं मोक्षं सिद्धक्षेत्ररूपं स्वावस्थारूपं वा ॥४॥
तत्त्वतः सर्वचारित्रं सामायिकरूपमेवेति मन्यमानो विशेषास्तु तत्सञ्ज्ञाभेदाः किञ्चिद्विशेषकृता इत्यतस्तत्परित्यागेन तदेव व्याख्यातुमाह -
समभावो सामइयं, तणकंचणसत्तुमित्तविसओ त्ति । निरभिस्संगं चित्तं, उचियपवित्तिप्पहाणं च ॥ ४९९ ॥ ११/५
समश्चासौ भावश्च मध्यस्थोचितवृत्तिरूपः समभावः सामायिकं प्रवृत्तिनिमित्तमन्त्यम्, शब्दव्युत्पत्तिनिमित्तं तु बहुधा । कीदृक् समभाव: सामायिकमुच्यते ? तृणकाञ्चनशत्रुमित्रविषय इति । तृणकाञ्चनेऽजीवस्वरूपे शत्रुमित्रे जीवलक्षणे, तद्गोचरः सर्ववस्तुविषय इति यावत् चेतनाचेतनव्यतिरेकेण वस्तुन एवापरस्याभावात् । निरभिष्वङ्गं रागद्वेषाकरणेन निःसङ्गम्, (चित्तं मनः, अटी.) उचितप्रवृत्तिप्रधानं च पुण्यापुण्यवत् स्वौचित्यप्रवृत्तिसारम् । क्षीणमोहानामपि योग्यतापेक्षयोपकारनिष्पत्तिसिद्धेः ॥५॥
सति एयम्मि उणियमा, नाणं तह दंसणं च विण्णेयं ।
एएहिं विणा एयं, न जातु केसिंचि सद्धेयं ॥५००॥ ११/६
सत्येतस्मिन् सामायिके तु नियमाद् ज्ञानं तथा दर्शनं च सम्यग्दर्शनं च विज्ञेयम्, एताभ्यां ज्ञानदर्शनाभ्यां विना एतत् सामायिकं न जातु कदाचित् केषाञ्चित् जीवानां श्रद्धेयं श्रद्धातव्यम्
॥६॥
गुरुपारतंत नाणं, सद्दहणं एयसंगयं चेव ।
एत्तो उ चरित्तीणं, मासतुसादीण निद्दिद्वं ॥ ५०१ ॥ ११ / ७
. गुरुपारतन्त्र्यं गुर्वायत्तत्वं [ एव अटी.] ज्ञानम्, व्यापकत्वान्माषतुषादीनामपि सम्भवात् । (श्रद्धानम्) श्रद्धामेतत्सङ्गतमेव ज्ञानसङ्गतमेव । अत एव चारित्रिणां माषतुषादीनां निर्दिष्टमेतद्द्वयम् ॥७॥