SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ॥ ॥ एकादशं साधुधर्मविधि-पञ्चाशकम् ॥ एवं तावदादित आरभ्य दशभिः प्रकरणैः श्रावकधर्म उक्तः । साम्प्रतं साधुधर्माचिख्यासयाहनमिऊण वद्धमाणं, मोक्खफलं परममंगलं सम्मं । वोच्छामि साहुधम्मं, समासओ भावसारं तु ॥४९५॥ ११/१ नत्वा वर्धमानं चरमतीर्थङ्करम् । मोक्षः फलमस्येति मोक्षफलं परममङ्गलं प्रधानमङ्गलस्वभावम्, ज्ञानादीनां भावमङ्गलत्वात् । सम्यक् प्रशस्तं प्रवक्ष्यामि साधुधर्मं समासतो भावसारं तु भावप्रधानमेव ऐदम्पर्यसारं समासाभिधानं प्रकरणस्य प्रयोजनम्, सामान्येन तु साधुधर्मोऽभिहित एव, विस्तरतस्तत्र, विस्तरभीरवः केचित्, केचिदैदंपर्यानभिज्ञाः, तदनुग्रहार्थमिदं प्रस्तुतम् ॥१॥ तत्र कः साधुर्यस्यायं धर्मोऽभिधीयत इत्याह - चारित्तजुओ साहू, तं दुविहं देससव्वभेएण । देसचरित्ते न तओ, इयरम्मि उ पंचहा तं च ॥४९६॥ ११/२ चारित्रमाचारः तद्युक्तः साधुः तच्चारित्रं द्विविधं द्विप्रकारम् देशसर्वभेदेन देशसर्वचारित्रविशेषेण देशचारित्रेऽनिन्दितक्रियाहेतौ श्रावकयोग्ये, न तको न स साधुर्भवति । इतरस्मिस्तु इतरस्मिन्नेव सर्वचारित्रे तथाविधक्रियाकारणभूतभावे वर्तमानस्तको भवति । पञ्चधा तच्च सर्वचारित्रम् ॥२॥ पञ्चविधत्वमेवाह - सामाइयत्थ पढमं, छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं, तह संपरायं च ॥४९७॥ ११/३ तत्तो य अहक्खायं, खायं सव्वम्मि जीवलोगम्मि । जं चरिऊण सुविहिया, वच्चंति अणुत्तरं मोक्खं ॥४९८॥ ११/४ जुग्ग। सामायिकमथ प्रथमं । प्राकृतत्वादथशब्दस्याकारलोपो निपात एव वा। छेदोपस्था[प]नं भवेद् द्वितीय सातिचारनिरतिचारमहाव्रतारोपणरूपम् । परिहारेण तपसा समयोक्तेन विशुद्धाः साधवस्तेषामिदं, ग्रहादेराकृतिगणत्वाद् परिहारविशुद्धीयम् । सूक्ष्म तथा सम्परायं च सूक्ष्मसम्परायमथवा प्राक्तनगुणस्थानापेक्षया सूक्ष्माध्यवसायरूपत्वात् सूक्ष्मं तथा कृत्तिगतः सम्परायः
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy