SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७२ ५-प्रत्याख्यानविधि-पञ्चाशकम् गाथा-३७-३८ कथं पुनः परिपूर्णेऽपि प्रत्याख्यानकाले धर्मनिरता भुञ्जत इत्याह [गाथायुगलेन] - काऊण कुसलजोगं, उचियं तक्कालगोयरं नियमा । गुरुपडिवत्तिप्पमुहं, मंगलपाढाइयं चेव ॥२३१॥ ५/३७ सरिऊण विसेसेणं, पच्चक्खायं इमं मए पच्छा । तह संदिसाविऊणं, विहिणा भुंजंति धम्मरया ॥२३२॥ ५/३८ जुग्गं । कृत्वा कुशलयोगं कुशलव्यापारम् उचितं योग्यं तत्कालगोचरं भोजनकालविषयं नियमान्नियमेन गुरुप्रतिपत्तिप्रमुखं गुरुविनयादिकं मङ्गलपाठादिकं चैव मङ्गलपाठः पञ्चनमस्कारपाठः । आदिशब्दाद्धर्ममङ्गलादिप्रशस्तश्रुतपरिग्रहः तत्कालेऽन्यपाठस्यानुचितत्वानिमित्तशास्त्रेषु प्रतिषिद्धत्वाद् यदेव ह्युभयलोकहितं तदेव ततो प्रशस्यते । तत्पुरुषाचरितं [तत्वेन] च एतत्प्रवृत्तिर्न निरसनीया । तन्निरसने सदनुष्ठाननिरासप्रसङ्गान्महाऽऽशातनादोषप्रसङ्गाच्च । त एव हि सर्वथोचितज्ञाः प्रमाणीकरणीयास्तद्बहुमाने भगवद्बहुमानासेवनात्, यो गुरुं मन्यते स मामिति तदाज्ञाप्रामाण्यात् । तद्वचनान्यथाकरणे दोषप्रतिपादनात् । उक्तं च चन्द्रकवेध्यप्रकीर्णके चिरन्तनवाचनायाम् - छट्ठ-ऽटुम-दसम-दुवालसेहिं भत्तेहिं जो परक्कमइ। अकरेंतो गुरुवयणं, सो होइ अणंतसंसारी ॥१॥[चन्द्रवेध्य. गा.३५ ] धण्णा आयरियाणं, निच्चं आइच्च-चंदसरिसाणं। संसारमहण्णवपारयाण पाएसु निवयंति ॥२॥ इहलोइयं च किर्ति, लभंते आयरियभत्तिरागेण। देवगइंच विसिटुं, धम्मे य अणुत्तरं बोहि ॥३॥ देवा वि देवलोए, निच्चं दिव्वोहिणा वि जाणेत्ता। आयरियाण सरंता, आसणसयणाणि मुंचंति ।।४॥ देवा वि देवलोए, निग्गंथं पवयणं अणुसरंता। अच्छरगणमज्झगया, आयरिए वंदगा एंति ॥५॥ [ चन्द्रवेध्य. गा.३१-३४] तस्मात्तत्प्रामाण्यादिदमनुसरणीयम् ॥३७॥ स्मृत्वा विशेषेण प्रत्याख्यातमिदं नमस्कारसहित-पौरुष्यादि मया पश्चाद् भोगादतीतकाले तथा सन्देश्याऽनुज्ञाप्य 'अनुजानीत यूयमिदानी पारयामि'इति विधिना भोजनविधिना वा ।
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy