SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ५- प्रत्याख्यानविधि-पञ्चाशकम् गाथा - ३१-३४ ७० तुलसी सुरसा । कुहेकः प्रसिद्ध एव तावादी यस्य तत्तथा सुरसा - कुहेटकादि च द्रव्यजातम् । मधु-पिप्पली-सुंठ्यादि चानेकधा स्वादिमं भवति, स्वाद्यमित्यर्थः ॥३०॥ (१. यष्टिमधुः ।) अशनादिगतव्यापकन्यायोपदर्शनायाह लेसुद्देसेणेते, भेया एएसि दंसिया एवं । एयाणुसारओ च्चिय, सेसा सयमेव विष्णेया ॥२२५॥ - ५/३१ लेशोद्देशेन स्वल्पसामान्याभिधानेनैते भेदा ओदनसौवीरादयः । एतेषामशनादीनां दर्शिता उक्ता एवमुक्तनीत्या एतदनुसारत एव प्रदर्शितभेदानुसारत एव शेषा एतज्जातीयाः, स्वयमेव स्वबुद्ध्यैव विज्ञेया यथास्वमनुक्ताः ॥३१॥ अप्रमादवृद्धिजनकत्वमात्रमेवाहारप्रत्याख्यानस्य दर्शयन्निदमाह - तिविहाइभेयओ खलु, एत्थ इमं वण्णियं जिणिदेहिं । तो च्चिय भेएस वि, सुहुमं ति बुहाणमविरुद्धं ॥२२६॥ ५ / ३२ त्रिविधादिभेदतः खल्वादिशब्दाच्चतुर्विधग्रहः, अत्राधिकारे इदं प्रत्याख्यानं वर्णितं कथितं जिनेन्द्रैः क्षीणराग-द्वेष-मोहैः समुत्पन्नकेवलज्ञानैर्भगवद्भिः । अत एव हेतोः भेदेष्वपि परिहार्यद्रव्यगतेषु सूक्ष्ममितिकृत्वा प्रमादपरिहारस्यानेकधा सूक्ष्मत्वात् शास्त्रोक्तं प्रत्याख्यानम्, बुधानामविरुद्धं विदुषामप्रतिषेधनीयम् । सर्वविरतावनाहारभेदप्रत्याख्यानं सम्भवतीति भावः ॥३२॥ अण्णे भांति जतिणो, तिविहाहारस्स न खलु जुत्तमिणं । सव्वविरइओ एवं, भेयग्गहणे कहं सा उ ? ॥२२७॥ ५/३३ अन्ये दिगम्बरादयः भणन्ति प्रतिपादयन्ति । यतेः साधोस्त्रिविधाहारस्य पानकरहितस्य, न खलु [युक्तं-सङ्गतम् अटी. ] प्रयुक्तमिद नैव युक्तं प्रत्याख्यानं सर्वविरतितः सर्वविरते: एवं त्रिविधाहारप्रत्याख्यानं भेदग्रहण वान्याहारपरिवर्जनेऽपि शेषग्रहणे कथं नैवेति गम्यते सात तु शब्दः पुनः शब्दार्थः। सा सर्वविरतिः कथं पुनरेवं भवति, साकल्येन सर्वस्मादाहाराद्विरत्यनुपपत्तेः ॥३३॥ एवं पराभिप्रायमाशङ्क्य परिहरन्नाह - अपमायवुड्डिजणगं एयं एत्थं ति दंसियं पुव्वं । तब्भोगमित्तकरणे सेसच्चागा तओ अहिगो ॥२२८॥ ५/३४
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy