SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ गाथा-२७-३० ५-प्रत्याख्यानविधि-पञ्चाशकम् इतरथा त्वन्यथा तु मोहात् प्रत्याख्येयविषयविभागापरिज्ञानाद्विपर्यया वैपरीत्यम् । भणितभावानां ज्ञानश्रद्धानादीनां सम्यक् परिज्ञानाभावे सर्वेषामेव विपर्ययः स्यात्तस्माज्ज्ञानादिसम्पादनादिभेदोपादानां शास्त्रोक्तमविरुद्धम् ॥२६॥ अशनादिभेदनिरूपणायाह - असणं ओयणसत्तुगमुग्गजगाराइ खज्जगविही य । खीरादि सूरणादी, मंडगपभिती य विण्णेयं ॥२२१॥ ५/२७ अश्यत इति अशनम्, रूढित ओदन-सत्तुक-मुद्ग-यगारादि [-जगार्यादि-अटी.] लोकसमयसिद्धम् खाद्यकविधिश्च लोकप्रतीतः क्षीरादि, आदिशब्दाद्दधिघृतादिपरिग्रहः । तथा 'सूरणादि [सूरणकन्दप्रभृति अटी.] मण्डकप्रभृति च मण्डकापूपादि च विज्ञेयम्॥२७॥ अधुना पानमाह - पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सव्वो, कक्कडगजलाइयं च तहा ॥२२२॥ ५/२८ पीयत इति पानम् । सौवीरयवोदकादि, आदिशब्दात्तिलतुषोदकादिपरिग्रहः । चित्रं विविधं सुरादिकम् ।चैवादिशब्दात् सीधुप्रसन्नादिपरिग्रहः । अप्कायः सर्व आश्रयभेदेन सरित्सरोवरादिगतः, कर्कटक जम्बूफलादिरसविशेषसन्मिश्रसलिलादिकं च तथा पानमिति वर्तते ॥२८॥ अधुना खादिममाह - भत्तोसं दन्ताई, खज्जूरं नालिकेरदक्खादी । कक्कडिगंबगफणसाइ बहुविहं खाइमं णेयं ॥२२३॥ ५/२९ भक्तं च तदोषं च रूढ्या भक्तौषं परिभ्रष्टचनकधानादि । दन्तादि गुडसंस्कृतदन्तपवनादि देशविशेषप्रसिद्धम्, खरं प्रसिद्धमेव । नालिकेरद्राक्षादि, आदिशब्दाद्दाडिमादिपरिग्रहः । कर्कटिकाम्रकपनसादि बहुविधं बहुप्रकारं फलं जातं सर्वमपि खादिम ज्ञेयम् । तृप्तिहेतुत्वविशेषोपलक्षणेन खाद्यं ज्ञातव्यम् ॥२९॥ उक्तं खादिमम्, स्वादिममाह - दंतवणं तंबोलं, चित्तं तुलसीकुहेडगादी य । महुपिप्पलिसुंठादी य अणेगहा साइमं होइ ॥२२४॥ ५/३० दन्तवनं 'दन्तकाष्ठं चेतनाचेतना(न)रूपम्। ताम्बूलं नागवल्लीपत्रजातम्। चित्रं नाना प्रकारम्।
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy