________________
९६
अध्यात्मबिन्दुः
[चतुर्थी परिहरत्यन्यथाऽपथ्यवशात् पुना रोगोत्पत्तिसंभवात् तथा' तेन प्रकारेण 'अयं' आत्मा 'दृङ्मोहज्वररहितचिन्मूर्तिः' दृङ्मोहो-दर्शनमोहनीयं कर्म तदेव तापप्रदत्वात् ज्वरस्तेन रहिता चिदात्मिका मूर्तिः-स्वरूपं यस्य स तादृशो दर्शनमोहनीयादिक्षयेण सम्यग्ज्ञानवान् सन्नित्यर्थः, 'अखिलान्' सकलान् न तु कतिपयानेव 'भोगास्वादान्' भोगरसान् विषयगृद्धिमित्यर्थः, 'त्यजन्' परिहरन् 'अचिरात्' शीघ्रमेव 'नैरुज्यं' स्वरूपसमवस्थानरूपमात्मारोग्यं 'अनुभवति' प्राप्नोति । दर्शनमोहनीयक्षयतो विषयविरागस्ततश्चात्मस्वरूपलाभ इत्याशयः ॥२३।।
आत्मनो विभावपरिणामवशादेव जन्मादीन्न यथावस्थितरूपेण पश्यति तदाह - चकास्त्येतद्यस्मिन् जगदखिलमूतं च महसि, जगत्यप्यस्मिन् यद्वसति न दधत्तत्परिणतिम् । अविद्यानिद्रापूर्णिततरक्वचिदृक् जनिमुखान्, बहून्स्वप्नान्पश्यत्यथ तदिदमस्तस्वविभवम् ॥२४॥ शिखरिणीवृत्तम् ।
पद्मप्रभा० चकास्ती' त्यादि, 'चकास्ति' द्योतते 'यस्मिन्' यत्प्रकारे 'महसि' ज्योतिषि शुद्धचिदात्मकात्मनि एतत्' दृश्यमानं जगद्' सचराचरं विश्वं' अखिलं' अशेषंपरिपूर्णं 'उतं च' स्यूतमिव, च इवार्थे 'यद्' इति महो 'अस्मिन्' जगति 'अपिना' परमपदस्थस्य तु का कथेति द्योत्यते । 'तत्परिणतिं' - जगत्परिणतिं 'न दधत्' न कलयदेव 'वसति' तिष्ठति । शुद्धात्मनश्चित्ते हि जगत्पदार्थसार्थ एव विषयस्तादृशश्चात्मा शुद्धत्वादेव न जगद्विकारभाग् भवतीत्याशयः । 'अथेति पक्षान्तरे 'तद्' उक्तमेवेदं जीवावस्थापन्नं महः अस्तस्वविभवं' गतस्वसम्पत् कर्मसंश्लेषैः शुद्धचिदात्मकमैश्वर्यमाव्रियते ततश्च अविद्ये 'त्यादि अविद्या' मिथ्याज्ञानं सैवायथार्थदर्शनहेतुत्वात् निद्रेव, तया 'घूर्णिततरा' नितरां भ्रान्ता क्वचित्' देहादौ दृग्' दृष्टिर्बुद्धिर्यस्य तादृशं सत्‘जनिमुखान्' जन्मजरामरणादिरूपान् ‘बहून्' विविधान् ‘स्वप्नान्' स्वप्नवदेवासत्पदार्थान्न यथावस्थितरूपेण 'पश्यति' अवलोकयति ॥२४॥