SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः ९५ भवोच्छेदोपायमाह भवाद्भोगेभ्यो वा ननु यदि च भोगायतनतो, विरज्य क्षिप्रं चेदनुभवति रूपं निजमयम् । ततः संसाराख्या व्रततिरियमप्राप्तविषयप्रपञ्चार्णःसेकात् क्षणत इव संशुष्यतितमाम् ॥ २२ ॥ शिखरिणीवृत्तम् । पद्मप्रभा० ‘भवा ं दित्यादि, 'भवात्' - संसारात्, 'भोगेभ्यः '- शब्दादिभ्यः सांसारिकसुखजनकत्वेनेष्टेभ्यः, 'वा'कारस्तुल्यकक्षतायां भवाद् विरागो विषयाद्विराग एवेति बोध्यम् । इत्थमपि देहे ममता चेत् नेष्टसिद्धिरित्यत आह- ' ननु यदि चे 'त्यवयवसमूहस्तथार्थे तथा 'भोगायतनतो' भोगायतनं शरीरं तस्माद् विरज्य वैराग्यमाप्य भवनैर्गुण्यदर्शनादिति बोध्यम् । चेत्-यदि 'क्षिप्रं' झटिति 'अयं' आत्मा 'निजं' स्वकीयं 'रूपं' शुद्धं स्वरूप' मनुभवति' पश्यति जानाति च । विरक्तः सन्नात्मा यदा स्वानुध्यानपरो भवति 'ततः' तस्मात् स्वानुभवहेतोः सर्वजीवसाधारणरूपा 'संसाराख्या' संसाराभिधा 'व्रततिरियं ' इयं लता 'अप्राप्तविषयप्रपञ्चार्णः सेकात्' अप्राप्तविषयविस्तारा एवार्णांसि जलानीव तेषां सेकस्तस्माद्धेतोः 'क्षणत इव' अचिरेणैव ' संशुष्यतितमाम्' समूलं नश्यति । लता हि सेकाभावे संशुष्यतीति यथा प्रसिद्धं तथैव वैराग्ये सति विषयसम्पर्काभावात् संसारोच्छेदोऽप्यित्याशयः ॥२२॥ विना वैराग्यमिष्टसिद्धिर्नास्तीत्याह - यथा रोगाद्युक्तः सरसपटुकट्वम्ललवण - द्रवान्नानाहारांस्त्यजति निजनैरुज्यकृतये । तथाऽयं दृङ्मोहज्वररहितचिन्मूर्तिरखिलां, स्त्यजन्भोगास्वादाननुभवति नैरुज्यमचिरात् ॥२३॥ शिखरिणीवृत्तम् । पद्मप्रभा० ‘यथे' त्यादि, 'यथे 'ति दृष्टान्तोपन्यासे 'रोगात्' ज्वरादितो 'युक्तः ' 'निजनैरुज्यकृतये' स्वारोग्यार्थं 'सरसपटुकट्वम्ललवणद्रवान्' सरसा:- स्वादवः, पटवा - रुचिकरा, कटवः - कटुरसयुक्ताः, अम्ला-अम्लरसयुक्ताः, लवणा-लवणरसयुक्ताः, द्रवाः- द्रवात्मकास्तानेतादृशान् 'नानाहारान्' विविधभोज्यान् 'त्यजति'
SR No.022281
Book TitleAdhyatmabindu
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherPadmvijay Ganivar Jain Granthmala Trust
Publication Year
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy