________________
४२२]
[विवेकमञ्जरी ततोऽभिगृह्येति नगस्य कस्यचिद् गुहागृहे सिंहवधूरिवास्थित । अर्चामियं शान्तिजिनस्य मृण्मयीं कृत्वार्चयन्ती गलितैः स्वयं सुमैः ॥३७॥ इयं चतुर्थादितपांसि तन्वती सतीवरेण्या विततान पारणम् । शुकादिनिष्कोषितबीजसंपुटैर्वनस्पतीनां पतितैः स्वयं फलैः ॥३८॥ इतश्च तां सार्थपतिः समन्ततोऽन्विष्यन् वसन्तोऽनुपदं समागतः । दृष्ट्वार्चयन्तीं जिनमानमद् मुदाऽपृच्छच्च हे अम्ब ! क एष देवता ? ॥३९॥ "विदर्भजाऽस्मै निजगाद षोडशः श्रीशान्तिनामैष जिनोऽर्च्यते मया । समस्तदुःखार्णवपारगामिनी यदर्चनेच्छापि सुदुर्लभाऽङ्गिनाम् ॥४०॥ श्रुताधिदेव्यामिव धर्ममार्हतं ततो दिशन्त्यामिह तस्य बोधये । उपेत्य साश्चर्यमुपान्तवाससिनस्तपस्विनोऽपि न्यषदन् मृगा इव ॥४१॥ इमां गुरुकृत्य तपस्विभिः समं सुश्रावकोऽभूदथ सार्थपार्थिवः । समाख्यया तत्र च तापसादियुक्पुरं तदाख्यास्थितये चकार सः ॥४२॥ तदन्तरं तेन च भीमनन्दिनीनिदेशतः । शान्तिजिनेन्द्रमन्दिरम् । अकारि यत्केतुमिषादलम्बयत् प्रमाणपत्रं कुलपर्वतेष्वपि ॥४३॥ दृष्ट्वा सुरानापततोऽन्यदा नगे समं समस्तैर्नलकान्तया तया । अयायि तत्रैक्षि च सिंहकेशरी तदात्वमुन्मीलितकेवलो मुनिः ॥४४|| प्रणम्यं तं केवलिनं सुरार्चितं पुरोऽस्य देवी निषसाद सादरम् । तदाप्युपेतो मुनिरप्युपाविशत् कश्चित् परीवारयुतः परीय तम् ॥४५॥ केवल्यथो निर्मितधर्मदेशनोऽभ्यधाद् व्रतीयतमिमं तपस्विनम् । भोः ! कूबरोऽस्या: सुदृशोऽस्ति देवरस्तस्याङ्गजोऽहं किल सिंहकेशरी ॥४६॥ सङ्गापुरीन्द्रस्य विवाह्य नन्दनीं मया निवृत्तेन निजायुरध्वनि । पृष्टो यशोभद्रगुरुर्यवेदयद् दिनानि पञ्चैव तवायुरित्ययम् ॥४७॥ ततो निशम्येति विरागवानहं व्रतं गृहीत्वाऽकरवं तपस्तथा। यथोद्ययौ केवलमद्य मे शिवं व्रतं तु ते सूरिरयं प्रदास्यति ॥४८॥
25