SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ [४२१ 5 गुणानुमोदनाद्वारे दवदन्तीकथा] मृगद्विषोऽस्याः सुललामदीधितेर्धगद्दवाग्नेरिव दूरतोऽभवन् । उपाद्रवंश्चापि वनेचरा न तां पराभवन् क्वापि न कौणपा अपि ॥२५॥ ६६ अथैक्षतासौ पुरतो निवासितं सुसार्थमेकं शकटालिमालितम् । अनेन साकं गहनस्य गंस्यते मयाऽन्तमित्यन्तरधत्त नोद्भयम् ॥२६॥ जगाम तं यावदियं महासती मलिम्लुचैस्तावदसावरुध्यत । स्वशीलसत्यापनयाऽनया पुनर्निराकृतास्ते त्रिभिराशु हुङ्कृतैः ॥२७॥ ससार्थलोकोऽथ वसन्तसार्थभूद् ननाम देवी कुलदेवतामिव । तुष्टाव कोशीकृतहस्तपङ्कजोऽपृच्छच्च काऽसि त्वममोधदर्शने ! ॥२८।। अथास्य सर्वं निजदुःखसंविदा विदारयन्ती हृदयं शशंस सा । अनीयतानेन च भक्तितो निजं गुरुं दरं सद्गुरुवच्च पूजिता ॥२९।। 10 सुखं स्थितायामिह तत्र पर्वतावलीनिचोलीभवदम्बुदावलिः । घनागमोऽजायत वारिवृष्टिभिनितान्तभोजायितवल्लरीवनः ॥३०॥ नलप्रिया पङ्किलतः किलामुतो निःसृत्य सार्थादथ शुद्धभूमये । पथि प्रयाती पललादमग्रतो ददर्श पाथोदमिव च्युतं दिवः ॥३१॥ तामाह गर्जन्नयमस्थिभूषणावलीबलाको रसनातडिल्लतः । स्थिरीभव त्वं मृदुलाङ्गि ! मेऽशनं जातासि राहोरिव वैधवी कला ॥३२॥ उवाच भैमी भयवर्जिताथ तं विरूपमस्मिन् विषये किमस्ति भोः ! । विनाशिनाऽमेध्यमयेन साध्यते परोपकारो यदि वह्मणाऽमुना ? ॥३३॥ ततः स तामाह तवामुना शुभ ! तुष्टोऽस्मि सत्त्वेन वृणीष्व तद् वरम् । तुष्टोऽसि चेत् तद् वद मे नलः कदा मिलिष्यतीत्येनमपीयमब्रवीत् ॥३४|| 20 दिनादितो द्वादश एव वत्सरे तवोपनेता मिलिता पितृगुहे। तस्यै निवेद्यावधिनेति तगिरा तिरोदधेऽकारणकौणपः सुरः ॥३५॥. 88 अथाददे भीमसुतेत्यभिग्रहान् न मेऽत्र यावद् भवितेष्टसङ्गमः । तावद् न भोक्ष्ये विकृतीन वारुणं वासो न ताम्बूलमहं कदाचन ॥३६।। 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy