________________
[ ४२३
गुणानुमोदनाद्वारे दवदन्तीकथा ]
इदं गदित्वा शिवमाप केवली शिवोत्सवं चास्य सुरा वितेनिरे । तपस्विमुख्यः सपरिच्छदश्च सव्रतं यशोभद्गुरोरूपाददे ॥४९॥ देवी तु सार्थेशपुरस्कृता पुरे प्रान्तर्यशोभद्रगुरुन् व्यजीहरत् । प्रातिष्ठपत्तज्जिनराजमन्दिरं स्वयं च सम्यक्त्वमुपाददे ततः ॥५०॥ तत्र स्थिताया इति सप्तवत्सरीं नलप्रियायाः पुर एत्य कश्चन । आचष्ट तुभ्यं पथि तिष्ठते नलो यास्यामि सार्थो यदयं प्रयाति मे ॥ ५१ ॥ अथाशु निःसृत्य च साऽन्वधावत प्रियो मम क्वेति रवं वितन्वती । पपात चैषा गहने पिशाचिकामेकां पुरस्ताद् विकृतां ददर्श च ॥५२॥ इयं च तामाह कपालमेकतः करे दधानां परतश्च कर्त्तरीम् । मयाऽसकृष्टाशितुमद्य जीवितेश्वरान्तिकं वां गमयामि मा व्रज ॥५३॥ अनाकुला देव्यथ विघ्नशान्तये सस्मार शान्तेः परमेशितुः कामान् । ततः पिशाच्याऽपसृतं हताशया त मिश्र येवोदयतो विवस्वतः ॥ ५४॥ ततः कुतश्चिद् वनदेवसञ्ज्ञितः कुत्रापि यान् सार्थपतिः पितेव ताम् । नीत्वा मुमोचाचलपत्तने तृषातुरा तु सा कामपि वापिकां ययौ ॥५५॥ दिवापि तामिन्दुमुखीं चकोरीकालेलिह्यमानास्यदिशामिहागताः । विलोक्य याता ऋतुपर्णभूपतेर्महेलिकायै न्यगदन् महल्लिकाः ॥५६॥ सा पुष्पदन्ती भगिनी कनीयसी समाख्यया चन्द्रयशास्तदैव ताम् । ताभिः समानाय्य जगाद मद्भुवस्त्वं चन्द्रमत्याः सदृशासि कासि तत् ? ॥५७॥ तां मातृजामिं दमयन्त्यपि स्वकामविन्दती प्राह कुलादिगोपनात् । वणिक्सुताऽहं गलितास्मि सार्थतः पत्या वियुक्ता च निशीव कोकिका ॥५८॥ 20 अथाह तां चन्द्रयशा विषीद मा तिष्ठात्र नन्दन्यपरेव मेऽसि यत् । इतीरिता साऽस्थित सुस्थिता नलप्रवृत्तयेऽस्याः किल सत्रमन्दिरे ॥५९॥ तत्रैकदा तां शरणं प्रपन्नवान् मां रक्ष देवीति वदन् मलिम्लुचः । तन्मुक्तये चेयमुवाच रक्षकांस्ते चामुचंस्तं न भयाद् महीपतेः ||६० ||
5
10
15