SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ [४१९ गुणानुमोदनाद्वारे दवदन्तीकथा] $$ अथागतः संसदि सुंसुमारभूपं द्विजन्मेति जगाद कश्चन । उपेतभैमीवचसा ससर्ज मां विदर्भराजो नलशुद्धये त्वयि ॥१॥ विदर्भजा जीवति यत्किलोत्तमा नलोऽपि तज्जीवति विश्वजीवितम् । इति प्रमोदाद् दधिपर्णपार्थिवस्तमाह विप्रं स्मितबन्धुराधरः ॥२॥ ममैव राज्ये नलसूपकृद् गुणी किलास्ति कुब्जोऽस्य गिरा मया श्रुतम् । 5 कनीयसा हारितवैभवो नलः प्रियान्वितो यद् विपिने व्यपद्यत ॥३॥ तवैतया तु श्रवसोः सुधाकिरा गिरा द्विजाते ! मुदितोऽस्मि तद् वद । कथं वियोगोऽभवदेतयोः पितुर्गृहे कथं वा दवदन्त्युपाययौ ? ||४|| अथाह विप्रः शृणु देव ! नैषधिर्वनं प्रपेदे सह कान्तया तया । निशि प्रसुप्तां च विमुच्य तामयं कुतोऽपि दैवोपहतः प्रयातवान् ॥५॥ 10 निशाविरामेऽथ कृशोदरी तु सा क्षतश्रमा स्वप्नमिमं निरैक्षत । रसालमारोहमखादिषं फलान्यतोऽपतं व्यालविलोडिताच्च यत् ॥६॥ प्रगे प्रबुद्धाथ मृगेक्षणा क्षणादवीक्ष्य कान्तं विधुरेत्यचिन्तयत् । हृतः प्रियो देवतया कयापि मे विभातकृत्याय गतः स्वयं स वा ॥७॥ स्थितोऽथवा नर्मकृते कुतोऽप्यमुं गवेष्यामीति ययौ यतो यतः । ततस्ततोऽप्यप्रसमीक्ष्य सा नलं विलक्षभावेन भृशं व्यदूयत ॥८॥ इयं चरन्ती विटपांश्च पांसुलारवोत्थितान् वीक्ष्य मृगान् मृगेक्षणा । पतिभ्रमेणाभ्रमुजानिगामिनी मुमोद तन्निश्चयतो रुरोद च ॥९॥ उदस्य बाहुं दवदन्त्यथावदत् प्रिय प्रियैटेहि नु देहि दर्शनम् । न शर्म नर्माप्यतिनिर्मितं करोत्यतिर्हि सर्वत्र जनेन गीते ॥१०॥ इति प्रतिध्वानमियं नलप्रिया निजोदितस्यैव निशम्य हर्षिता। प्रियो नु मामाह्वयतीति सत्वरक्रमा जगामाद्रिगुहाद्रुगह्वरम् ॥११॥ तत्राप्यनालोक्य पतिं निशात्यये विलोकितं स्वप्नमियं व्यचारयत् । नले रसाले फलमृद्धिमाप्नवं ततोऽस्मि दैवेभविलोडिता च्युता ॥१२॥ 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy