________________
[४१७
10
गुणानुमोदनाद्वारे दवदन्तीकथा]
पतन्नुद्यन् मिलन् नश्यन् निघ्नन् घातं च वञ्चयन् । अङ्गुष्ठाङ्गुलिसम्मरर्दयन् पुष्करं छलात् ॥५७॥ भ्रान्त्वा दक्षिणपक्षेण चक्रवद् भ्रामयन् मुहुः । चतुर्णामपि पादानां प्रविश्याधो विनिःसरन् ॥५८।। निमेषार्धात् पुरः पश्चात् पक्षयोश्च स्फुरन् नलः । खेदयामासिवानेकोऽप्यनेकवदनेकपम् ॥५९॥ विशेषकम् ।। सोऽथ खिन्नमपि क्रोधाद् धावन्तं द्विपमुन्मदम् । वशीकर्तुं पटीं मूर्त्तामिव प्रज्ञा पुरेऽक्षिपत् ॥६०॥ रूपबुद्ध्याऽथ तां हन्तुं विलसन्तं मतङ्गजम् । दन्तन्यस्तपदः शैले केशरीवारुरोह सः ॥६१॥ कलापकान्तरन्यस्तपदस्तदनु दन्तिनम् । सृणिमादाय रोमाञ्चकववी तमवीवलत् ॥६२॥ पुरस्य कृपया कोऽपि किमसावाययौ सुरः । स्वयम्भूरथवा पौरपुण्यपूरैरसावभूत् ॥६३॥ अभ्रमूवल्लभस्पर्धिवर्धितद्विपराक्रमः । ययौ भुवनभीमोऽपि गजोऽयं यस्य वश्यताम् ॥६४॥ इत्थं परस्परं पौरैः प्रीतिगौरैः पदे पदे । कुब्जोऽपि स्तूयमानश्च वीक्ष्यमाणश्च रेजिवान् ॥६५॥ विशेषकम् ॥ प्रजात्मा स्वयमारुह्य गोपुरं पुरनायकः । तस्याधो गच्छटतः कण्ठे दाम रत्नमयं न्यधात् ॥६६॥ अथोपनीय शालायां गजमाकलयन्नलः । लीलाविलोलशुण्डाग्रग्राहिताहारपिण्डकम् ॥६७॥ प्रीतः प्रदाय रत्नानि वसनाभरणानि च । अथ मित्रगिरोर्वीशः पुरः कुब्जं न्यवीविशत् ॥६८॥
20