SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 10 ४१६] [विवेकमञ्जरी ततः किमेतदित्यन्तश्चिन्तयत्याकुले नले । नश्यतां नश्यतामित्थमूचुरुच्चैस्तुरङ्गिणः ॥४५॥ स्पर्धयेव प्रधावन्तीं घ्नन्तं छायामपि स्वकाम् । - मुहुः कृताकृतस्पर्शं वायुनापि भयादिव ॥४६॥ . . उदस्तशुण्डमुड्डीनानपि खण्डयितुं खगान् । क्षयोत्क्षिप्तमहादण्डमिव दण्डधरं क्रुधा ॥४७॥ धर्मपुत्रानिवाब्दस्य स्वशब्दस्पधिनोऽध्वनि । भिन्दन्तं दन्तघातेन पादपांश्च पदे पदे ॥४८।। मूर्धातिधूननैर्गण्डप्रोड्डीनालिकुलच्छलात् । क्षिपन्तं खण्डशः कृत्वा व्योमाङ्गणमपि क्षणात् ॥४९॥ क्वचित् कुञ्चितभूखण्डमुद्दण्डगतिडम्बरैः । व्यालं विलोकयामास नलः प्रबलविक्रमम् ॥५०॥ पञ्चभिः कुलकम् ॥ ऊर्वीकृत्य भुजामुर्वीभुजा बाहुयुजा ततः । व्याहृतं दधिपर्णेन क्षणाव्याकुलचेतसा ॥५१॥ यः कोऽपि कोपिनममुं करिणं कुरुते वशे । लक्ष्मी तनोमि तद्गेहोत्सङ्गरङ्गकनर्तकीम् ॥५२॥ अथाकयेति कुतुकात् सत्वरं प्राचलद् नलः । कालप्रायमपि व्यालं मन्यमानः शृगालवत् ॥५३॥ भो कुब्ज कुब्ज ! कीनाशमुखे मा विश मा विश । इत्युक्तोऽपि जनै/रः केशरीव ययौ गजम् ॥५४।। रे रे शुण्डाल ! मा बालविप्रधेनुवधूर्वधीः । एह्येहि मददुर्दान्त ! दान्ततां दर्शयामि ते ॥५५।। चलन्तमिति वाचालं कोपादनुचचाल तम् । करी कराग्रविक्षेपप्राप्ता (प्रा ?)प्तशरोरुहम् ॥५६।। 15
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy